SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२८ वरक-संहिता। विविधाशितपीतीयः अश्रद्धा चाचिश्चास्य-वरस्यमरसज्ञता। अङ्गमर्दो ज्वरस्तन्द्रा हृल्लासो गौरवं तमः॥ पाण्डुत्वं स्रोतसां रोधः क्लैव्यं सादः कृशाङ्गता। नाशोऽग्नेरयथाकालं बलयः पलितानि च ॥ रसप्रदोषजा रोगाः-- ---वक्ष्यन्ते रक्तदोषजाः। कुष्ठवीसर्परिड़का रक्तपित्तममृगदरः ॥ गुदमेदास्थपाकाश्च प्लीहा गुल्मोऽथ विद्रधी। नीलिका कामला व्यङ्गाः पिनवस्तिलकालकाः ॥ दद्रुश्चर्मदलं श्वित्रं पामा कोठास्त्रमण्डलम् । रक्तप्रदोषाजायन्ते-- --शणु मांसप्रकोपजान। अधिमांसाव॒दं कीलं गलशालकशुण्डिका ॥ पूतिमांसालजीग़ण्ड-गण्डमालोपजिलिकाः । विद्यान्मांसाश्रयात्--------------------------॥ गङ्गाधरः-तद यथा--- अश्रद्धेत्यादि। अश्रद्धादयो रसप्रदोषजा रोगा भवन्ति । १। वक्ष्यन्ते रक्तदोषजा इति । कुष्ठादयो रक्तपदोषजा जायन्ते । २। अथ मांसप्रकोपजान् शृणु। अधिमांसादीन मांसाश्रयान् रसायिणा वातादिनाऽश्रद्धादिकरणं बोद्धव्यम्, यतः---न गौरवं वातदुष्टरसे भवितुमर्हति, एतच्च नातिसुन्दरम् , तेन पूर्वपक्षो ज्यायान् ॥ ५॥ चक्रपाणिः --अश्रद्वायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव परन्त्वनिच्छा, अरुची तु मुखप्रविष्टं नाभ्यवहरतीति भेदः। आस्यवरस्यमुचितादाहारस्य रसादन्यथात्वम्, अरसज्ञता रसाप्रतिपत्तिः, सादोऽवसादः । रक्तप्रदोपजेषु कुष्ठग्रहणादेव चर्मकीलदह दिलाभे सिद्धे पुनस्तद्वचन विशेषप्रादुर्भावप्रदर्शनार्थम्, निलकालकास्तिलाकृतयः, अस्रमण्डल लोहिामण्डलम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy