SearchBrowseAboutContactDonate
Page Preview
Page 1138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८श अध्यायः सूत्रस्थानम् । ११२७ सहानि। एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदयो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणो भवन्ति। अत एव वातपित्तश्लेष्माणः स्थानविशेष प्रकुपिता व्याधिविशेषान् अभिनिवर्तयन्त्यग्निवेश। तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस्तान व्याधीन यथावत् अनुव्याख्यास्यामः ॥ ५ ॥ तहि कुतो व्याधयो मृदुदारुणादयो भवन्ति ? इत्यत उच्यते-एभ्यश्ववेत्यादि । अपथ्याहारश्च देशकालसंयोगवीय्येप्रमाणातियोगकृतोऽपथ्याहारजो दोषविशेपश्चातिस्थलादिशरीरविशेपश्चेत्येभ्य एव हेतुभ्यो मृदवो व्याधयो भवन्ति । तद्विशेषेभ्यो दारुणाश्च व्याधयो भवन्ति। तद्विशेषे क्षिप्रसमुत्थाश्च चिरकारिणश्च व्याधयो भवन्तीति । के पुनरेपां विशेषेभ्यो मृदुदारुणादीन् व्याधीन जनयन्ति ? इत्यत उच्यते--अत एवंत्यादि । अत एवापथ्याहारादोषशरीरविशेषेभ्य एव वातादयः कुपिताः स्थानविशेषे व्याधिविशेषानभिनिवेशयन्ति । स्थानविशेषेण यद्माधिविशेपान दर्शयितु प्रतिजानीते। तत्रेत्यादि । रसादिषु स्थानेषु कुपिता यस्मिन यस्मिन्न परस्मिन् स्थाने ।। ५॥ . किंवा, भनिविधानि विपमाणि । उपचितानीति संवर्द्धितानि ; आमान्नपुष्टं हि शरीरमनुभूतदोपभावितमेव भवतीति भावः ; विपरीतानीत्यनतिस्थूलत्वादियुक्तानि, व्याधिसहानीति व्याध्युत्पादकप्रतिबन्धकानि; एतच्च शरीरमधिकृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थम् उपन्यस्तम्, तेन यथोक्ता पथ्यबलवैपरीत्यं दोपबलपरीत्यञ्च न सद्यो व्याधिकारक भवतीत्येदप्युक्त बोद्रव्यम् ; पुनदेवापथ्याहारदोपशरीराणामेवाबलवत्त्वबलवत्त्वेन लक्षणविशेष यथायोग्यतया मृद्वादिव्याधिकारणत्वेन उपसंहरन्नाह-एभ्यश्चैवेत्यादि। विशेषा यथोक्ता उक्तविपरीताश्च, तत्र, उक्तविपरीतानां विशेषान् मृदवस्तथा चिरकारिणश्च भवन्ति, यथोक्तापथ्यादिविशेषाद दारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम्। अनेन प्रसङ्गेन वातादीनां रसादि. स्थानविशेषेषु कुफ्तिानां ये व्याधयो भवन्ति, तान् दर्शयितुमाह-अत एवेत्यादि । तत्र रसेत्यादौ कुपितानां दोपागामित्यनियमेन रसे कुपितो वायुः पित्तं वा श्लेष्मा वा, वातादयोऽश्रद्धादीनि कुन्ति, सत्यपि दोषभेदे आश्रयस्याभेदात् आश्रयप्रभावेणैवाऽश्रद्धादयो भवान्त, परं दोषभेदे अश्रद्धादावेव वातादिलिङ्ग विशिष्टं भवति ; किंवा यथायोग्य For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy