SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११८ चरक-संहिता। [विविधाशितपीतीयः खवायुज्योतिरब्भूमयः पुष्यन्ति । आहारजरसे हि यानि विकृतीभूतानि पञ्च खादीनि तानि पक्कानि मलविकारं विहाय प्रसन्नानि भूखा शब्दाद्य कैकगुणानि भवन्ति खाहृत्य गर्भारम्भे खात्मकृतानि पञ्चेन्द्रियारम्भकाणि खादीनि पञ्चमहाभूतानि शब्दाद्य कैकगुणानि पुष्यन्ति । वायुपोषणेन प्राणपोषणं ख्यापि तम् । इह शरीरपोषणप्रकरणाद्वात्मनः पोषणं नोक्तम् । तदप्युन्नेयम् । तदुक्तं छान्दग्योपनिषदि त्रिकरणप्रकरणे, तदयथा-यथानु खलु सौम्येमास्तिस्रो देवताः पुरुपं प्राप्य त्रित्तिदैकैका भवन्ति, तन्मे विजानीहीति। अन्नमशितं त्रेधा विधीयन्ते। तस्य यः स्थविष्ठो धातुस्तत् पुरीपं भवति । यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः। आपः पीतास्त्रेया विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः। तेजोऽशितं त्रधा विधीयते। तस्य यः स्थविष्ठो धातुस्तदस्थि भवति । यो मध्यमस्तन्मज्जा, योऽणिष्ठः सा वाक। उन्नमयं हि सोम्य मनः आपोमयः प्राण कराणि, धातुप्रसादसंज्ञकानीति अत्यर्थशुद्धत्वेनैव धातुप्रसादस्वेनेन्द्रियाण्यारभन्त इति दर्शयति । शरीरं बनातीति शरीरबन्धः स्नायुशिरादिः, आदिग्रहणादा-वस्तन्यादिग्रहणम् ; अत्राहारेण रसादिपोषणमेवं केचिद् ब्रुवते, यद्-रसो रक्तरूपतया परिणमति, रक्तञ्च मांसरूपतया, एवं मांसादयोऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति ; अत्रापि च मध्ये केचिद वते--क्षीराद् यथा सर्वात्मना दधि भवति, तथा कृत्स्नाद रसाद् रक्तं भवति, एवं रक्तादयो मांसादिरूपा भवन्तीति, अन्ये त्वाहुः ;-- केदारीकुल्यान्यायेन रसस्य धातुपोषणम्, तत्रान्नादुत्पन्नो रसो धातुरूपं रसम् मधिगम्य कियताप्यंशेन रसं वर्द्धयति, अपरश्च रसराशिस्तत्र च गतः सन शोणितगन्धवर्णयुत्तत्वात् शोणितमिव भूत्वा कियतापि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति, शेषश्च भागो मांसं याति, तत्रापि शोणितवद्व्यवस्था ; तथा मेदःप्रभृतिष्वपाति ; अत एव च मुख्यार्थोऽयं ग्रन्थो भवति, यथा-'रेसागत ततो मांसं मांसान्भेदस्ततोऽरिथ च। अस्थ्नो मजा ततः शुक्र शुक्राद गर्भः प्रसादजः ॥” इति ; तथा हारीतेऽप्युक्त-"रसः सप्ताहादाक् परिवर्त्तमानः श्वेतकपोतहरित हारिद्र पद्मकिंशुकालक्तकरसप्रख्यश्चायं यथाक्रम दिवसपरिवर्त्ताद वर्ण परिवर्तमानः पित्तोप्मोपरागाच्छोणितत्वमापद्यते” इति ; तथा, सुश्रु तेऽप्युक्तम्- “स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश कला अवतिष्टन् एवं मासेन रसः शुक्रीभवति । अन्ये स्वाहुः-- खलेक.पोतन्यायेन अयमन्नरसः पृथक् पृथक् धातुमार्गे गतः सन् रसादीन् पोषयति, न स्वस्य धातुपोषको रसभागो धात्वन्तरेण सम सम्बन्धमप्यनुभवति ; रसादिपोषकाणि स्रोतांसि उत्तरोत्तरं सूक्ष्ममुखाणि दीर्घाणि च, तेनैव रसपोपकरसभागो रसमार्गचारित्वात् रसं पोषयति, एवं रसपोषणकालादुत्तरकालं रक्तपोषकमार्गचारित्वात् रक्तपोषको रसभागो रक्त पोषयति, तथा शोणितपोषणकालादुत्तरकालं मांसपोपकरसभागो मांसं पोपयति विदूरसूक्ष्म For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy