SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२४ चरक-संहिता। [अन्नपानविधिः पाण्डरा दोषलाः स्निग्धा गुरवो भिन्नवर्चसः । इल्लिशो मधुरः स्निग्धः पित्तश्लेष्मप्रकोपणः। नृणां व्यायामनित्यानां हितो वह्निप्रदीपनः । एलङ्गः स्निग्धमधुरो गुरुविष्टम्भिशीतलः। अन्यत्र। एलङ्गो मधुरो दृष्यः संग्राही कफपित्तजित् । पव्वेतो वातहा स्निग्धः शुक्रलो वलवर्द्धनः। तत्रान्तरे। पवंतो मधुरः स्निग्धः कषायानुरसो गुरुः। शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो गुरुः। वातपित्तहरो दृष्य आमवातहरो मतः । शकुलो मधुरो वृष्यः कषायो विशदो लघुः। अन्यत्र च। शकुलो मधुरो ग्राही रुक्षः पित्तामजिद्गुरुः। भाङ्गटो मधुरो वृष्यः कपायानुरसो गुरुः । वम्मिमत्स्यस्तथा दृष्यो मधुरो रसपाकयोः। तन्त्रान्तरे तु। वम्मिमत्स्यो गुरु ष्यः कषायो रक्तपित्तहा। वम्मु पो वातहा स्निग्धो ग्रहणीदोषनाशनः । कुलिशो मधुरो हृद्यः कषायो दीपनो मतः । शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपिणी। अन्यत्र तु । शृङ्गी स्वादुरसा स्निग्धा टहणी कफकोपिनी। मदगुरो मधुरो दृष्यो विपाके मधुरो गुरुः। अन्यत्र च। मदगुरो मधुरः स्निग्धः संग्राही शुक्रलो गुरुः। कवयः सिग्धमधुरा बल्या वातकफापहाः । चलदङ्गोऽनभिषान्दी हितो वाते च रोचनः । गड़को मधुरो रुक्षः कषायः शीतलो लघुः। शकली रोहिताकारा प्रायो भूमो चरत्यसो। मत्स्यश्चिलिचिमो नाम वल्वीगड़समो गुणैः। सव्वेवातकरश्चैव कफनाशन उत्तमः। वल्वीगड़ो लघू रुक्षोऽनभिष्यन्दी च पूच्चतः। गुच्छमत्स्यो गुरुः स्निग्धः श्लेष्मलो वातनाशनः। आडिमत्स्यो गुरुः स्निग्धो वातश्लेष्मप्रकोपणः। वायुपो मधुरो वृष्यो हणो धातुवर्द्धनः। भेकाटो मधुरः शीतो वृष्यः श्लेष्मकरो गुरुः। गगेरो मधुरः स्निग्धो वातपित्तविनाशनः । चित्रफलो गुरुः स्वादुः स्निग्धो वृष्यो बलप्रदः। फली स्वादुगुरुः स्निग्धो वलकृच्छकवर्द्धनी। नन्द्यावत्तेस्तु संग्राही कफपित्तविनाशनः । वाचः स्वादुगुरुः स्निग्धः इलेष्मलो वातपित्तजित् । चिङ्गटस्तु गुरुाही मधुरो वलवद्धनः। भेदःपित्तास्रजिष्यो रोचनश्च कफप्रदः। चिङ्गटी मधुरा हृया वातघ्नी श्लेष्मला गुरुः । स्निग्धास्यकफरोगनी श्रेष्ठा प्रोष्ठी प्रकीर्तिताः। प्रोष्ठी तिक्ता कटुः स्वादुः शुक्रला कफवातजित् । चन्द्रकस्वनभिष्यन्दी मधुरो बलवद्धनः । दण्डिकः कफजित् तिक्तो.वातपित्तहरो लघुः। चम्पकुन्दो गुरुप्यो मधुरो वातपित्तजित्। त्रिकष्टः पित्तहा रुक्षो दीपनः कफजिल्लघुः। खलिशः कथितो इति पृथक् पाठः कृतः। “मांसं वृहणानाम्” इत्यनेनैबामवाधिकारवचनेन मांसस्य वृहणत्वे For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy