SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । अन्नपानविधिः १०१२ चरक-संहिता। उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बुकुक्कुटी। आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ॥ रोहिणी कामकालो च सारसो रक्तशीर्षकः। चक्रवाकस्तथा चान्ये खगाः सन्त्यम्बुचारिणः ॥ १५ ॥ पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृकः । शशोरणौ कुरङ्गश्च गोकर्णः कोकारकः ॥ चारुष्को हरिणणौ च सम्बरः कालपुच्छकः । ऋष्यश्च वरपोतश्च विज्ञ या जाङ्गला मृगाः ॥ १६ ॥ कादम्बस्तादृशपक्षी । काकतुण्डकः श्वेतपानीयकौड़ी। उत्क्रोश उच्चःक्रोशकृत्, वृहचिल इति लोके । पुण्डरीकाक्षः पुण्डरियापक्षिभेदः । मेघरावो मेघनादपक्षी। अम्बुकुक्क टी जलकुककुटः। आरा पक्षिविशेषः स्वनामख्यातः। नन्दीमुखी वाटी च पक्षिभेदो खनामख्यातो। सुमुखाः सहचारिणश्च रोहिणी च काम काली च पक्षिभेदा देशविशेषे तत्तन्नामानः। सारसः प्रसिद्धः । रक्तशीर्षकः । चक्रवाकप्रकारः चक्रवाकः प्रसिद्धः। तथान्ये कद्दमखचादयः । इति वारिचरपक्षिवगः ॥१५॥ गङ्गाधरः-- पृषत इत्यादि । पृषदादयो मृगा जाङ्गलसंज्ञा भवन्ति । नत्र पृषत् हरिणविशेषः । शरभ उष्ट्रप्रमाणमहाशृङ्गपशुभेदः। रामो हिमालये महामृगः । श्वदंष्ट्रः चतुर्दष्ट्रः कात्तिकपुरे प्रसिद्धमृगः। मृगमातृकः पृथदरगवाकृति वृहद्धरिणः। शशः प्रसिद्धः । उरणः शशकविशेषः । कुरङ्गो हरिणविशेषः । गोकणः गोम्बाहरिणः । कोटकारश्च चारुष्कश्च हरिणश्च हरिणभेदाः । पानीयकाका, कादम्बः कलहंसः, काकतुण्डकः श्वेतकारण्डवः, उत्क्रोशः कुरल इति ख्यातः, पुण्डरीकाक्ष: पुण्डरः , मेवरावो मेघनादः, मेघरावश्चातक इत्यन्ये, तन्न, तस्य वारिचरत्याभावात् ; अम्बुकुक्क टी जलकुक्कुटी, आरा स्वनामख्याना, नन्दीमुवी पत्राटी सारसः प्रसिद्धः, रक्तशीर्षक: सारसभेदो लोहितशिराः ; अम्बुचारिण इति जले प्लवन्त इत्यर्थः ॥ १५॥ चक्रपाणिः-पृपतश्चित्रहरिणः ; शरभोऽयपाद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुप्पादः काश्मीरे प्रसिद्धः, रामः हिमालये महामृगः, श्वदंष्ट्रा चतुर्दष्टा कार्तिकपुरे प्रसिद्धः, मृगमातृका स्वरुपा पृथूदरा हरिणजातिः, कुरङ्गो हरिणभेदः, गोकर्णो गोमुखहरिणविशेषः, हरिणस्ताम्रवर्णः, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy