________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । ४१ हिताहितं सुखं दुःखमायस्तस्य हिताहितम् मानञ्च तच्च यत्रोक्तमायुर्वेदः स उच्यते ॥
नमन्तरेण न शिष्याः शास्त्र प्रवर्तन्ते इत्यतस्त त्मयो. जनादिकं ज्ञापयितुं प्रथमत आयुर्वेदे वक्तव्ये प्रायुर्वेदखरूपज्ञानमपेक्ष्य ते इत्यत आयुर्वे दे त्वभिधेय मायुर्निर्देशपूर्वकमायुर्वेदञ्च लक्षयति हिताहित मित्यादि।
हितञ्चाहितञ्च द्वयोः समाहार इति हिताहितं हितमहितं सुखं दुःखञ्चेति चतुर्विधमायुरर्थे दशमहामलीयेवयं वक्ष्यते तद्यथा । ___ शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्थानभिभतस्य च विशेषेण यौवनवतः समर्थानुगतबल वीर्यपौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियार्थबलसमुदा. यस्य परमरुिचिरविविधोपभोगस्य यथेष्ट विचारिणः सुखमायुरुच्यते ॥ १ ॥
असुखमतोविपर्य येण ॥२॥ हितैषिणः पुनर्भूतानां परस्या सदुपवतस्य सत्यवादिनः समीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्ग परस्परेणानुपहतमुपसेव्य पूजाह पूजकस्य ज्ञानविज्ञानोपशंस शीलस्य ड्वोपसेविनः सुनियतवागेमिदमा नवेगस्य सततं विविधप्रदा
For Private And Personal Use Only