SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६ Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्प्रकाव्ये निदानस्यापि तव रोदनं कथमिति चित्रभित्तीयते चित्तमित्याबभाषे । श्रुत्वा वाणीं तस्य मन्दस्मितेन तन्वन्निर्यत्क्षीरधारेति शङ्काम् । इत्थं वाचामाचच भवान्वै मोचामाध्वीमाधुरीमादधानाम् ॥ १४ ॥ श्लेष्मच्छेदो नयनयुगलीनिर्मलत्वं च नासा शिङ्खाणानां भुवि निपतनं कोष्णता भोज्यवर्गे । शीर्षाबद्ध भ्रमकरपयो दोषबाधानिवृत्ति रन्येऽप्यस्मिन्परिचित गुणा रोदने संभवन्ति ॥ १९ ॥ इति वचनमयसुधां श्रवणपुढे सिञ्चता भिक्षोरपारबुभुक्षासमीक्षणजनितवैलक्ष्यप्रापितजोषभावेन करुणावरुणालयेन भवता वितीर्णम्, शय कुशेशयकररुहरुचिसुरसरिड्डिण्डीर खण्डायमानम् करकरूपतरु स्तवकशङ्कावहं नखचन्द्रैः सह परिचयाय समागतचन्द्रविम्वसंभावनासंपादकम्, आशातरङ्गिणीशोषणशारदसमयखण्डायितं करकवलमास्वाद्य, सद्य एव तृप्तिमापन्नः कर्मन्दी, संदीपितजठरदहनशमनेन महोपकारं मन्यमानः परमनन्यसामान्य सौजन्यतया परमोत्कृष्टफलां कलां तुभ्यं प्रतिपादयामास । विद्यावल्ली प्रात्रसुक्षेत्रदत्ता प्रज्ञासिता सूक्तिभिः पुष्पिता च । आशायोषित्कर्णभूषायमाणां कीर्तिप्रोद्यन्मञ्जरीमादधाति ||१६|| विद्याकल्पतरुः समुन्नतिमितः प्राप्तोऽपि गम्यो नतैः पुष्पाण्यत्र समेत्य मञ्जुलमहोमुत्र प्रसूते फलम् । किंचायं खलु मूलमाश्रितवतां संतापमन्तस्तनोत्यूर्ध्व संचरतां नृणां पुनरसौ तापं धुनी तमाम् ॥ १७॥ इति गुरोरुदन्तमाकर्ण्य कर्णरसायनम्, मौनमेवोत्तरमादधानो, वदनवनजे मानससरसि च प्रश्रयमृणालीमधिमुखमादधतीं शैष्योपाध्याविकामराली खेलयन्, गुरुशुद्धिविज्ञानेन लब्धमणिपरिशुद्धिज्ञाने - For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy