SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये व्यालोलकङ्कणझणत्कृति तत्र देव्यः ___ पुष्पग्रहं करतलैः कुतुकादकापुः ॥ १७ ॥ एवं चिरं विस्तारितद्विविधवनक्रीडाश्रान्तानां क्रीडासंमर्दविलुलितलतान्तानां व्यालोलनयनान्तानां संदोहेन सह वचन निषण्णस्तत्र गन्धर्वदत्ताकुचकुम्भयुगले मारमदेभमदधारायमाणां कस्तूरीधारां निपातयन् , गुणमालावक्षःस्थले सुरभिलमृगमदमेदुरमलयनरसं लिम्पन्, सुरमञ्जर्या नाभिकुहरादारभ्य काश्मीरपडून लतां विलिखन्, पद्मायाः कपोलयोर्मकरिकां विस्तारयन्, क्षेमश्रियो वदने मृगमदतिलकं विरचयन्, लक्ष्मणायाः स्तनमुकुलयुगले मकरिकापत्रं विचित्रयन्, अन्यासां च यथोचितं प्रसाधनानि विदधानो जीवंधरः सहर्षमवर्तिष्ट । वृक्षादृक्षमुदारशाखमचिरादाक्रम्य भूमीरुहा न्व्यालोलान्निदधानमाहितभयादुड्डानपक्षिव्रजान् । कीशानां निचयं ददर्श वसुधापालो वनाभ्यन्तरे शश्वद्वालकगृह्यमाणजठरोद्यद्वानरीभिर्वृतम् ॥ १८ ॥ ततान्यसंपर्कमवेक्ष्य रुष्टां स्वां वानरी कोऽपि युवा प्लवङ्गः । दीनस्वभावो विविधैरुपायैः शान्तां विधातुं न चिरं शशाक ॥१९॥ तदनु रोषोत्कटमर्कटीं प्रकृतिस्थां कर्तुमक्षमतया बहुदीनदशामापन्नं मृतमिव भूमौ पतितं मायाविनं शाखामृगमवलोक्य भयविह्वलाङ्गी प्लवङ्गी समीपमासाद्य तदवस्थामपाचकार । प्लवङ्गतरुणस्ततः पनसपक्वपुष्यत्फलं ददौ वनमृगीमुदे विततहर्षनद्धान्तरः । जहार वनपालकः सपदि तत्फलं पेशलं करप्रचलयष्टितो मुदितवानरी भर्स्यन् ॥ २० ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy