SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१ एकादशो लम्बः । आनीलचूचुकतलं विलसत्तमाल पत्राञ्चिताग्रनवहेमघटप्रतीपम् ॥ १३ ॥ मणिकाञ्चीकलापेन दूयमानो दिने दिने । महिषीणां मध्यभागः कशिमानं जहौ तदा ॥ १४ ॥ तदनु प्राप्ते प्रसवसमये शुभदिवसे सावधानैर्नाडिपरिज्ञानसाधनस्वाधीनचित्तेर्गणकैगृहीते लग्ने देवीततिः कादम्बिनीवरंमदान्पुत्रानसूत । ततः प्रहर्षविस्तारितलोचनः पृथ्वीकमनः पुत्रान्दृष्ट्वा शुभदिवसे कलितमहोत्सवस्तेषां गन्धर्वदत्ताप्रभृतिदेवीपुत्राणां सत्यंधरसदर्शन - धरणि - गन्धोत्कट - विजय - दत्त - भरत · गोविन्दनामधेयानि प्रकटीचकार । एवं सौख्येन वसतः पाकारिसदृशश्रियः । धराधिपस्य धीरस्य त्रिंशद्वर्षाण्ययासिषुः ।। १५ ॥ ख्यातौ श्रीभरताधिराजसदृशो नीतौ च रामप्रभो स्तुल्यः संपदि पाकशासनसमः पृथ्वीपतिः कौरवः । धर्मे धर्मतनूभवेन तुलितस्तुल्योऽर्जुनेनाहवे सोऽयं भाग्यनिधिः शशास वसुधां धृत्वा चिरं बाहुना ॥१६ कदाचिद्वसन्ते विरहिजनदुरन्ते प्रसाधितवनान्ते वनमियबिरुतमुखरिताशान्ते संप्रवृत्ते, पुष्पफलादिकमुपहारीकुर्वता वनपालेन वनविहाराय विज्ञापितो वसुधापतिः, अष्टाभिः कान्ताभिः समं नगरान्निर्याय, पर्याप्तफलकुसुमपल्लवतल्लजमुपवनमासाद्य वनपालेन तत्र निवेद्यमानानेकैकशः पल्लवितपुष्पितफलिततरुनिकरानिरीक्षमाणश्चिरं विजहार । वल्गत्कुत्रं सपदि भङ्गुरमध्यभागं स्विद्यत्कपोलमलकाकुलवक्रबिम्बम् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy