________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घरमा श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। १८५ दामो । ब्रह्मानन्दं प्रति श्रीपादा मया निमन्त्रिताः स्थ तदिदानीमनन्तरकरणीयाय गच्छन्तु। श्रीचै । स्वामिन् एवमेव युज्यते। ब्रह्मा। यदभिरुचितं भवते। इति दामोदरादिभिः कतिभिः सह निष्कान्तः। श्रीचै। सार्वभौम त्वमपि गन्तुमर्हसि । सार्व। देव किच्चिन्निवेदनीयमस्ति । श्रीचै। किं तत्। साव । स्वामिन् अभयञ्चेद्दीयते तदा निवेद्यते । श्रीचे। असाध्वसमेव कथ्यताम्। सार्व। भूपानः श्रीचरणावलोकनाय समुत्कण्ठते। यद्यनुमन्यसे तदा तमानयाम। श्रोचे । की पिधाय । सार्वभौम भवताऽपीदमुच्यते।
निष्किञ्चनस्य भगवद्भजनोन्मुखस्य पारं परं जिगमिषार्भवसागरस्य । सन्दर्शनं विषयिणामथ योषिताच्च
हा हन्त हन्त विषभक्षणतोऽप्यसाध ॥ सार्च । स्वामिन् सत्यमेवैतत् किन्त्वसौ श्रीजगन्नाथसेवकः । श्रीचै। आकारादपि भेतव्यं स्त्रीणां विषयिणामपि ।
___ यथाऽहेमनसः क्षोभस्तथा तस्याकृतेरपि ॥ यद्येवं पुनरुच्यते तदाऽत्र न पुनरहं द्रष्टव्यः । सार्व। तूष्णीं तिष्ठति।
2A
For Private And Personal Use Only