________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमा श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। १७७
अयमेघ दृशो रसायनं परमानन्दपुरीश्वरः पुरस्तात् । दमनार्थमघौघकारिणां
धृतदण्डः समये समुज्जिहीते॥ सार्व। आकण्य। अहो अवसरः संवृत्त एव देवस्य यदयं प्रस्ताति।
श्रीकृष्णचे। खगतम् । अहो परमानन्दपुरोश्वरस्तावन् मुनोन्द्रमाधवपुरीश्वरस्य शिष्यः । यत्र खनु अग्रजस्य विश्वरूपस्य समग्रमैश्वरं तेजः प्रविष्टं स एव वा समागतः। भवतु देवं विलोक्य तत्त्वमस्य ज्ञेयम्।
सार्च । इयं पुरो भगवतः परमानन्दपुरी तदेना प्रविशन्त। इति सर्वे भगवता सह श्रीजगन्नाथदर्शनार्थं निष्कान्ताः । ततः प्रविशति परमानन्द युरो। पुरी। सोत्कण्ठम्।
कदाऽसौ द्रष्टव्यः स खस्नु भगवान् भक्ततनुमानिति प्रौढोत्कण्ठाविलुलितमहो मानममिदम् । चिरादद्य प्राप्तः स खलु फलकालो मम पुन
ने जाने कीदृशं जनयति फलं भाग्यविटपी॥ इति परिक्रामन् । भगवन् श्रीजगन्नाथ क्षम्यतां त्वामनालोक्य यदये तमुपसपामि तत्तादृशीमुत्कण्ठां सर्वज्ञा जानन्येव । पुरोऽवलोक्य । अहो इहैव भवितव्यं भगवता तेन। यतः।
For Private And Personal Use Only