SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ चैतन्यचन्द्रादयस्य णोत्तमा राजमहापात्राणि स्वभाववैष्णवाः । अयं प्रहरराजमहापात्रं परमो भगवङ्गतः। अयं प्रद्युम्नमिश्रः । अयं विष्णुदामः । इमे रामानन्दरायःसहोदराः। तन्मध्ये अयं वाणीनाथपट्टनायकः । अयं तस्य जनको भवानन्दरायः। इमे चान्ये गौडोत्कलवासिनः सर्वे त्वच्चित्तास्त्वगतप्राणा दण्डवत् प्रणमन्ति । एतानात्मीयत्वेनानुग्रहीतुमईन्ति। भगवान्। आत्मान एवामी कथमेषामात्मीयत्वं विशेषता जगन्नाथसेवकाः। सार्व। भगवन् जगन्नाथस्य भवतश्च कृष्णचैतन्यत्वमविशिष्टमेव तथाप्यस्ति कश्चिझेदः। असौ दारुब्रह्म भवान् नरब्रह्म। भगवान्। कण विधाय। अत्युक्तिरेषा तव सार्वभौम तनोति कामं श्रवसोः कटुत्वम् । तीदणे हि गौडस्य रसस्य पाक स्तिक्तत्वमायाति न चैति बद्धम्॥ सार्व्व। भगवान् गौडदेशस्य रसस्य पाकः सुरस एव यत्राविरासीभगवान्। श्रीकृष्णचै। विरम विरम अतः परं श्रीपुण्डरीकाक्षदर्शनस्य समयो जातः । सार्च। एवमेव तदुपसर्पन्तु भगवन्तः। इति भगवन्तमये कृत्वा परिकामन्ति । नेपथ्ये। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy