SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ चैतन्यचन्द्रोदयस्य पूर्व मृतः कथमहो वत जोवितोऽहं भूयोऽपि मारयसि किंवत जीवयित्वा । दौलता तव विभो न मनाऽधिगम्या नन्वीश्वरो भवति केवलबाललोलः ॥ इति रोदिति। मुकुन्दः। नालोक्यते तव मुखं नयनेन किं नो नाऽऽकर्ण्यते तव वचः श्रवणेन वा किम् । हे प्राणनाथ भगवंस्त्वदुपेक्षितानां कष्टेन वा किममुना हतजीवितेन ॥ जगदानन्दः। सवाष्यम् । नास्मादृशैस्तव पदाम्बुजसनहीनजर्जीविष्यते क्षणमपीति मनो न आसीत्। लज्जामहे दयित हे तत एव देव जीवाम एव दिवसांस्वदनीक्षणेऽपि ॥ इति मूर्च्छति । दामोदरः। हा प्राणनाथ क्कासि कासि। प्राणा न किं व्रजत मुञ्चत जाद्यमुच्चैः प्राणेश्वरश्चरति साम्प्रतमेक एव । तत्पादपङ्कजमुपेत्य भजध्वमज्ञाः प्रेमात्मनामहह माऽस्तु कुले कलङ्कः । इति मूर्छति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy