SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ [ ३३ ] वासो अभिवढिओय नायो । एकस्मिन् चंद्रमासे अहोरात्रा एकोनत्रिंशद् भवन्ति द्वात्रिंशच्व द्वाषष्टिभागस्य अहो - रात्रस्य एतच्चानन्तरं चोक्तं तत एष राशिस्त्रयोदशभिर्गुणितो जातानि त्रीणि अहोरात्रशतानि त्र्यशीत्यधिकानि चतुश्चत्वा रिंशच्च द्वाषष्टिभागा अहोरात्रस्य एतावद होरात्रप्रमाणोऽभिवर्जितसंवत्सर उपजायते कथमधिकमास सम्भवो येनाभिवर्द्धित संवत्सर उपजायते कियता वा कालेन सम्भवतीति उच्यते इह युगं चंद्राऽभवतिरूप पञ्चसं वत्सरात्मकं सूर्य्यस वत्सराप्रेक्षया परिभाव्यमान मन्य नातिरिक्तानि पञ्चवर्षाणि भवन्ति सूर्य्यमास साई त्रिंशदहोराणि प्रमाण चंद्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य ततो गणितपरिभावनया सूर्य्यसंवत्सर सत्क त्रिंशन्मासातिक्रमे एकचांद्रमासोऽधिको लभ्यते तथाच पूर्वाचार्य्यप्रदर्शितेयं करण गाथा ॥ चंदस्स जो विसेसो आइछ्चस्स य ह विज्ज मासस्स तीसह गुणिओ संतो हवइ हु अहिमासओ एक्को ॥१॥ अस्याऽक्षरगमनिका आदित्यस्य आदित्य संवत्सरः सम्बन्धिनो मासस्य मध्यात् चंद्रस्य चंद्रमासस्य यो भवति विश्लेष इह विश्लेष कृते सति यदवशिष्यते तदुपचारात् विश्लेषः स त्रिंशता गुण्यते गणितः सन् भवत्येोऽधिकमासः तत्र सूर्य्यमा सपरिमाणात् सार्द्ध त्रिंशदहोरात्ररूपात् । चन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्येवं रूप शोध्यते तत स्थितं पश्चाद्दिनमेकमेकेन द्वाषष्टिभागेन न्यूनं तच्च दिनं त्रिंशता गुण्यते जातानि त्रिंशद्दिनानि एकश्च द्वाषष्टिभाग त्रिंशता गुणितो जातास्त्रिंशत् द्वाषष्टिभागाः ते त्रिंशद्विनेभ्यः शोध्यन्ते ततस्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिं ܟ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy