________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 576 सिद्धान्तकौमुदीसहिता उणादयः 7 / भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः। भरति बिभर्ति वा भरुः, खामी हरश्च / म्रियन्तेऽस्मिन्भूतानि मरुनिर्जलदेशः / शेते शयुः अजगरः / तरुव॒क्षः / चरन्ति भक्षयन्ति देवता इममिति चरुः / त्सरुः खड्गादिमुष्टिः / तनु स्वल्पम् / तन्यते कर्मपाशोऽनया इति तनुः, शरीरञ्च / स्त्रियां मूर्तिस्तनुस्तनूः' / धनुः शस्त्रविशेषः / 'धनुना च धनुर्विदुः' / 'धनुरिवाजनि वक्र:' इति श्रीहर्षः / मयुः किन्नरः / 'मद्दुः पानीयकाकिका' इति रभसः / न्यक्कादित्वात्कुत्वं, जश्त्वेन सस्य दः / 8 / अणश्च / 'लवलेशकणाणव:' चात्कटिवटिभ्याम् / कटति रसनां कटुः / वटति वदतीति वटुः / 9 / धान्ये नित् / धान्ये वाच्येऽण उप्रत्यय: स्यात् / स च नित् / नित्त्वादाद्युदात्तः, प्रियङ्गवश्वमेऽणवश्च मे / 'व्रीहिभेदस्त्वणुः पुमान्' / निद्हणं 'फलिपाटि-' इत्यादिसूत्रमभिव्याप्य सम्बध्यते / चेत्याहुः / 'कर्कर्यालुर्गलन्तिका' इत्यमरः / भृमृशी // भरुरिति // ‘भरुः स्वर्णे हरे पुंसि' इति मेदिनी / 'भरुभर्तृकनकयोः' इति हेमचन्द्रः / शयुरिति // 'अजगरे शयुर्वाहस इत्युभौ' इत्यमरः / तरिति // तरन्ति नरकमनेन रोपकाः / चरुरिति // 'अनवस्रावितान्तरूष्मपक्क ओदनः' इति याज्ञिकाः / त्रिवृदधिकरणेऽप्येवम् / 'उगवादिभ्यो यत्' इति सूत्रे कैयटस्त्वाह / 'स्थालीवाची चरुशब्दस्तास्थ्यादोदने भाक्तः' इति / विश्वप्रकाशे तु 'चरुर्भाण्डे च हव्याने' इति नानार्थतोक्ता / 'अथ पुमान् चरुर्हव्यानभाण्डयोः' इति मेदिनी च। 'हव्यपाके चरुः पुमान् ' इत्यमरग्रन्थे / कर्मार्थघअन्तेन कर्मधारयमधिकरणार्थवजन्ते षष्ठीतत्पुरुषञ्चाश्रित्य द्वेधा व्याचक्षाणाः स्वाम्यादयोऽपि नानार्थतायामनुकूलाः / 'तनुः काये त्वचि स्त्री स्यात्तिष्वल्पे विरहे कृशे। धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने' इति नान्तमेदिनी। विश्वप्रकाशमुदाहरति / धनुना चेत्यादि / 'स्यात्तनुस्तनुषा सार्द्धम्' इत्यतः सार्धमित्यनुषज्यते / धनुरिवेति // "शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः / 'क्षिप्नुरेनमृजुमाशु विपक्षं सायकम्' इति श्रीहर्षश्लोकशेषः / “धनुर्वंशविशुद्धाऽपि निर्गुणः किङ्करिष्यति" इति धन्वन्तरिः। कोचित्तु इह सूत्रे धनि न पठन्ति / तेषां मते सकारान्तधनुःशब्दमेवाश्रित्योक्तग्रन्था निर्वाह्याः / तस्यापि पुंस्त्वात् / उक्तं ह्यमरेण / 'अथास्त्रियौ धनुश्चापौ' इति / किन्नर इति // 'तुरङ्गवदनो मयुः' इत्यमरः / 'मीनातिमिनोति' इत्यात्वन्तु नेह / बाहुलकात् / कटति रसनामिति कटुः / 'कटुः स्त्री कटुरोहिण्यां लताराजित योरपि / नपुंसकमकार्ये स्यात्पुल्लिङ्गो रणमात्रके / त्रिषु तद्वत्सगन्ध्योश्च मत्सरेऽपि खरेऽपि च' इति मेदिनी। वटतीति // ‘वटुर्द्विजसुतः स्मृतः' इति संसारावर्तात् / नटवटुरिति तूपचारात् / दन्त्योष्ठ्यादिरयम् / कल्पद्रुमादिप्रामाण्यात् / अभिव्याप्येति // For Private And Personal Use Only