________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु / // अथ तिङन्तनामधातुप्रकरणम् // 2657 / सुप आत्मनः क्यच् / (3-1-8) इषिकर्मण: एषितृसम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच्प्रत्ययो वा स्यात् / धात्ववयवत्वात्सुब्लुक् / 2658 / क्यचि च / (7-4-33) अस्य ईत् स्यात् / आत्मन: पुत्रमिच्छति पुत्रीयति / 'वान्तो यि प्रत्यये' (सू 63) गव्यति / नाव्यति / 'लोपः शाकल्यस्य' (सू 67) इति तु न / अपदान्तत्वात् / तथा हि / अथ नामधातुप्रक्रियाः निरूप्यन्ते / सुप आत्मनः क्यच // प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते / 'धातोः कर्मणः' इति सूत्रात्कर्मणः इच्छायां वेत्यनुवर्तते / कर्मण इति पञ्चमी / कर्मकारकादिति लभ्यते। सन्निधानादिच्छाम्प्रत्येव कर्मत्वं विवक्षितम् / आत्मन्शब्दः स्वपर्यायः / तादर्थ्यस्य शेषत्वविवक्षायां षष्ठी / स्वार्थात्कर्मण इति लभ्यते / स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः / तथाच स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेस्सुबन्तादिच्छायां क्यज्वा स्यादिति फलति / तदिदमभिप्रेत्य आह। इषिकर्मणः एपितृसम्बन्धिनः इत्यादिना // एषित्रादिषिकर्मण इत्यर्थः / एषित्रा स्वार्थ यदिष्यते कर्मकारक तद्वाचकात्सुबन्तादिति यावत् / धात्ववयवत्वादिति // सुबन्तात् क्याच कृते तदन्तस्य सनाद्यन्ताः इति धातुत्वादिति भावः / क्यचि च // 'अस्य च्वौ' इत्यनुवर्तते / ई घ्राध्मोः' इत्यत ईग्रहणञ्चेति मत्वा शेषम्पूरयति / अस्येति // अकारस्येत्यर्थः / पुत्रीयतीति / / क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीय इति धातोर्लडादिरित्यर्थः / आत्मनः किम् / राज्ञः पुत्रमिच्छति / पदविधित्वेन समर्थपरिभाषायाः प्रवृत्तेर्महान्तं पुत्रमिच्छतीत्यत्र पुत्रशब्दानक्यच् / गव्यतीति // गामात्मन इच्छतीत्यर्थः / नाव्यतीति / / नावमात्मन इच्छतीत्यर्थः / अपदान्तत्वादिति // 'लोपः शाकल्यस्य' इत्यस्य पदान्त एव प्रवृत्तेरिति भावः / नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह / तथा हीति // यथा पदत्वन्न भवति तथोच्यते इत्यर्थः / For Private And Personal Use Only