________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु। // अथ तिङन्तयङ्लुक्प्रकरणम् // 2650 / यङोऽचि च / (2-4-74) यङोऽच्प्रत्यये लुक् स्याञ्चकारात्तं विनापि बहुलं लुक्स्यात् / अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति / ततः प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वम् / अभ्यासकार्यम् / धातुत्वाल्लडादयः / ‘शेषात्कर्तरि-' (सू 2159) इति अथ यङ्लुकप्रक्रियाः निरूप्यन्ते। यङोऽचि च॥ आचि इति प्रत्ययग्रहणम् / नतु प्रत्याहारः / यङा साहयर्यात् / ‘ण्यक्षत्रियार्ष' इत्यतः लुगित्यनुवर्तते / तदाह / योऽच प्रत्यये लुगिति / चकारात्तं विनापीति // अच्प्रत्ययाभावेऽपीत्यर्थः / बहुळमिति // चकारात् 'बहळञ्छन्दसि' इति पूर्वसूत्राद्वहळग्रहणमप्यनुकृष्यते इति भावः / एवञ्च अचप्रत्यये तदभावेऽपि यङो बहुळं लुगिति फलितम् / तेन लूजओ यङन्तादचि यडो लुगभावपक्षे अतो लोपे लोलूय इति रूपम् / लुकि तु लोलुव इति रूपं सिद्ध्यति / तथा अच्प्रत्ययाभावेऽपि बो. भूयते, बोभवीति, इत्यादौ यङो लुग्विकल्पः सिद्ध्यतीति बोध्यम् / अनैमित्तिकोऽयमिति // अच्प्रत्ययादन्यत्र बोभवीतीत्यादौ यलुक् अनैमित्तिकः / ततश्च परस्मादपि द्वित्वादिकार्याप्रागेव अन्तरङ्गत्वाद्यो लुक भवति ततो द्वित्वादीति वस्तुतः स्थितिकथनमिदम् / अच्प्रत्यये विधीयमानस्तु यङ्लुक् नैमिकत्वाद्वहिरङ्ग एव / ततश्च परत्वान्नित्यत्वाच्च आदौ द्वित्वे कृते यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुण: 'न धातुलोप आर्धधातुके' इति निषेधान भवति / अच्प्रत्ययस्य यङ्लोपनिमित्तत्वादिति बोध्यम् / नन्वेवं सति यङ्लुकि 'सन्यडोः' इति द्वित्वं न स्यात् / यङो लुका लुप्तत्वेन प्रत्ययलक्षणाभावादित्यत आह / ततः इति // यङो लुगनन्तरमित्यर्थः / ‘न लुमता' इत्यनेन हि लुमताशब्देन लुप्ते तनिमित्तमङ्गकार्यनिषिध्यते / द्वित्वादिकन्तु यङन्तस्य कार्यम् , नतु यनिमित्तकम् / यडि परतस्तद्विद्ध्यभावादिति भावः / द्वित्वमिति // नच 'एकाचः' इति विधीयमानं द्वित्वङ्कथमिह यङ्लुकि स्यात् / “श्तिपा शपा" इति निषेधादिति वाच्यम् / 'गुणो यङ्लुकोः' इत्याद्यभ्यासकार्यविधिबलेन द्वित्वनिषेधाभावज्ञापनादिति भावः / अभ्यासकार्यमिति // गुणादीति भावः / धातुत्वादिति // यङो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यङन्तत्वात् 'सनाद्यन्ताः' इति धातुत्वम् / नच 'न लुमता' इति निषेधः शङ्कयः / धातुसंज्ञायाः यङन्तधर्मत्वेन यङि परतोऽङ्गकार्यत्वाभावादिति भावः। यो ङित्त्वात्तदन्तादात्मनेपदमाशय आह / शेषादिति // ननु ‘शेषात्कर्तरि' इत्यत्र आत्मनेपदनिमित्तहीनो धातुश्शेषः / For Private And Personal Use Only