________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 सिद्धान्तकौमुदीसहिता [चुरादि सम्बन्धश्च / वर्षयते / मद 1706 तृप्तियोगे / मादयते / दिवु 1707 परिकूजने / गृ 1708 विज्ञाने / गारयते / विद 1709 चेतनाख्यानविवासेषु / वेदयते / सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे / विन्दते विन्दति प्राप्तौ श्यन्लुक्नम्शेष्विदं क्रमात् // मान 1710 स्तम्भे / मानयते / यु 1711 जुगुप्सायाम् / यावयते। कुस्म 1712 नाम्नो वा (ग सू 199) 'कुस्म' इति धातुः कुत्सितस्मयने वर्तते / कुस्मयते / अचुकुस्मत / अथवा 'कुस्म' इति प्रातिपदिकम् / ततो धात्वर्थे णिच् / इत्याकुस्मीयाः / चर्च 1713 अध्ययने / बुक्क 1714 भाषणे / शब्द 1715 उपसर्गादाविष्कारे च / चाद्भाषणे / प्रतिशब्दयति / प्रतिश्रुतमाविष्करोतीत्यर्थः / 'अनुपसर्गाच्च' / 'आविष्कारे' इत्येव / शब्दयति / कण 1716 निमीलने / काणयति / णौ चङ-युपधाया ह्रस्वः' (सू 1324) / 'काण्यादीनां वा' केचित् / हूस्वोपध इत्यन्ये / विदधातोरर्थभेदे विकरणभेदं सङ्ग्रह्णाति / सत्तायां विद्यते इत्यादिश्लोकेन // 'कुस्म नानो वा' गणसूत्रम् / कुस्मेति पृथक्पदं अविभक्तिकम् / तदाह / कुस्म इति धातुरिति // कुत्सितस्मयने वर्तते इति शेषपूरणं, व्याख्यानादिति भावः / कुस्मयते इति // आकुस्मीयत्वादकर्तृगेऽपि फले आत्मनेपदम् / आकुस्मादात्मनेपदिन इत्यत्र आङभिविधावित्याश्रयणादिति भावः / अचुकुस्मतेति // उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाभावान्न सन्वत्त्वमिति भावः / नाम्नो वेत्यशं व्याचष्टे / अथवेति // नाम प्रातिपदिकं तस्माद्वा णिज्भवतीत्यर्थः / तच्च प्रातिपदिकङ्कुस्मशब्दात्मकमेव गृह्यते प्रत्यासक्तया / तथाच कुस्मेति धातोः कुस्मेति प्रातिपदिकाद्वा णिजिति फलितम् / तत्र धातोः णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकात् णिचि विशेषमाह / ततः इति // तस्मात् प्रातिपदिकादित्यर्थः / धात्वर्थे इति // करोतीत्यर्थे आचष्टे इत्यर्थे वेत्यर्थः / नच 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकात् णिच् सिद्ध इति वाच्यम् / 'आकुस्मादात्मनेपदिनः' इत्यात्मनेपदनियमार्थत्वात् / इत्याकुस्मीयाः / शब्द उपसर्गादिति // उपसर्गात्परः शब्दधातुः आविष्कारे वर्तते इत्यर्थः / अनुपसर्गा चेति // अनुपसर्गात्परोऽपि शब्दधातुः णिचं लभते इत्यर्थः / आविष्कारे इत्यस्यैवानुवृत्त्यर्थ पृथगुक्तिः / शब्द आविष्कारे चेत्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् / तदाह / आविष्कारे इत्येवेति / काण्यादीनामिति // इदं वार्तिकं 'भ्राजभासभाष' इति सूत्रे भाष्ये For Private And Personal Use Only