________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 सिद्धान्तकौमुदीसहिता [दिवादि 2511 / ज्ञाजनोर्जा / (7-3-79) अनयोर्जादेशः स्याच्छिति / जायते / जज्ञे / जज्ञाते / जज्ञिरे / जनिता / जनिष्यते / 'दीपजन--' (2328) इति वा चिण् / 2512 / जनीवध्योश्च / (7-3-35) अनयोरुपधाया वृद्धिर्न स्याच्चिणि णिति कृति च / अजनि-अजनिष्ट / दीपी 1150 दीप्तौ / दीप्यते / दिदीपे / अदीपि-अदीपिष्ट / पूरी 1151 आप्यायने / पूर्यते / अपूरि-अपूरिष्ट / तूरी 1152 गतित्वरणहिंसनयोः / तूर्यते / तुतूरे / धूरी 1153 गूरी 1154 हिंसागत्योः / धूर्यते / दुधूरे / गूर्यते / जुगूरे / घूरी 1155 जूरी 1156 हिंसावयोहान्योः / शूरी 1157 हिंसास्तम्भनयोः / चूरी 1158 दाहे / तप 1159 ऐश्वर्ये वा / अयं धातुरैश्वर्ये वा श्यनन्तञ्च लभते / अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः / केचित्तु वाग्रहणं वृतुधातोराद्यवयवमिच्छन्ति / तप्यते / तप्ता / तप्स्यते / 'पत' इति व्यत्यासेन पाठान्तरम् / 'द्युत द्यामानि युतः पत्यमानः'। याम्' इत्याद्यर्थमादित्त्वम् / शाजनोर्जा // शितीति // ष्ठिवुक्लम्वाचमामित्यतस्तदनुवृत्तेरिनि भावः। जायते इति // ज्ञाधातोस्तु नाविकरणत्वात् जानातीत्युदाहरणम्। उभयत्रापि जादेशस्य हूस्वान्तत्वे अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति परिभाषया 'अतो दी? यजि' इत्यप्राप्तौ जादेशस्य दीर्घान्तत्वमाश्रितम् / जज्ञे इति // ‘गमहन' इत्युपधालोपे नस्य श्चुत्वेन अः / जायेत / जनिषीष्ट / लुङि अजन् स् त इति स्थिते आह / दीपेति। वा चिणिति // सिच इति शेषः / अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् / जनीवध्योश्च // ‘अत उपधाया' इत्यतः उपधाया इति ‘मृजेर्वृद्धिः' इत्यतो वृद्धिरिति ‘नोदात्तोपदेशस्य' इत्यतो नेति 'आतो युक्' इत्यतः चिण्कृतोरिति 'अचोणिति' इत्यतः णितीति चानुवर्तते / तदाह / अनयोरिति // दीपधिातुरीदित् / 'दीपजन' इति सिचः चिण्विकल्पं मत्वा आह / अदीपि-अदीपिष्टेति // पूरीधातुरपि ईदित् / 'दीपजन' इति चिण्विकल्पं मत्वा आह / अपूरि-अपूरिष्टेति // तूरी इत्यादयोऽपि 'चूरी दाहे' इत्यन्ता ईदित एव / तप ऐश्वर्येवेति // श्यन् आत्मनेपदश्चेति शेषः / उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति / श्यनं तङञ्चेति // अन्यदा त्विति // ऐश्व. र्यादन्यत्रार्थे वृत्तिदशायामित्यर्थः / केचित्त्विति // 'तप ऐश्वर्ये वा' 'वृतु वरणे' इति धातुपाठे स्थितम् / तत्र 'वावृतु वरणे' इत्येव वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः / एवञ्च तप ऐश्वर्ये इत्येव स्थितम् / अस्मिन्पक्षे तपधातोः नित्यमेव श्यन् तङ् चेति भावः / तप्यते इति // ईष्टे इत्यर्थः। प्रथमपक्षे ऐश्वर्ये तपतीत्यपि भवति // पत इतीति // तपधातोस्तकारपकारयोः क्रमव्यत्यासेन ‘पत ऐश्वर्ये वा' इति पाठान्तरमित्यर्थः / एवं व्यत्यासेन पाठे For Private And Personal Use Only