________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्न:
39
रित्वं च वक्तव्यम् । तदनन्तरमम्लरसस्य कार्यकारित्वं वक्तव्यम् । कटुरसस्यापि तथा कार्यकारित्वभजनात्। तस्मात्स्वाबम्लकटुरसानामेव दोषसाम्यं प्रतिपादितम्, नैव रोगमात्रनिवर्तकसामग्री प्रातिपादिता इति । तत्र सूत्रवचनम् ।
रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता । * एतद्वचनमत्र प्रमाणामति त्रयाणां दोषाणां समता या सामग्री दृश्यते सा सामग्री भिरेव कार्या । तथा सति तदितररसानां का गतिरित्याशयं मनसि निधाय तश्चिन्त्यमित्युक्तम् । तत्र शारीरवचनं
आदौ षड्रसमुत्पन्नं मधुरीभूतमीरयेत् । फेनीभूतं कर्फ यातं विदाहादम्लतां ततः ॥ पित्तमामाशयात् कुर्यायवमानं च्युतं पुनः ।
अग्निना शोषितं पक्वं पिण्डितं कटुमारुतम् ॥1 एकरसवद्दव्यमेव पाके त्रिधा विभजनं करोतीत्यर्थः। सर्वधातुपचनं हरतां वातपित्तकफदोषाणां अविकारकगति प्रापयितुं तत्र भोज्यद्रव्यादनं, तेषां बहुरसात्मकत्वात् । ते रसाः तत्तविधिचोदितफलानि प्रयच्छन्तीति. या रसान् यो भोकमुपलभते तेन उपलभ्यमानरसं तदनुभववशात् फलं प्रदीयते इति रसान् विद्यात् । तस्माद्वहुरसद्रव्यादनादेव तत्ताद्वधिचोदितफलं प्राप्यत इत्यस्वरसादाह-स्वाद्विति ।
स्वादम्लकटुकाः पाक्या रसा यथा समदोषा यथायथं योगफलदायकाः ॥ ७२ ॥
सर्वे रसाः पाकेन स्वाद्वम्लकटुका भूत्वा यथार्थस्थिता रसा एव तत्तत्फलदायका इति । समाधत्ते-य इति ।
* अष्टाङ्ग सूत्रं. I. 19. अष्टाङ्ग. शारीर. III. 57-58.
For Private And Personal Use Only