SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रभः. 11 न जायत इत्यजः । ती जीवात्मपरमात्मानौ शरीराधिष्ठितावित्यर्थः । घटज्ञानवानहमिति यस्य प्रतीतिस्तस्यैव विषयानुभवत्वं अनयोरन्यतरस्य सम्भवतीत्यर्थः । अत आह-अन्य इति । अन्योऽन्नमति ॥२५॥ शरीराङ्गानि इन्द्रियाणि, अङ्गी शरीरी। जीवात्मन इन्द्रियगोचरविषयानुभवार्थ तदङ्गभूतेन्द्रियाणि संसृज्य जानाति, इच्छति, प्रयतते, इत्येतत्प्रत्ययान्यथानुपपत्त्या जीवात्मा अनमश्नुते । तद्वयतिरिक्तात्मना किं तदनुभूयत इत्याशङ्कायामाह-- अनत्तीति। अनत्त्येवमन्यः ॥२६॥ अन्यस्य परमात्मनः सर्वविषयानुभवत्वं प्रसिद्धामति अन्यस्य फलेनाविशिष्टत्वात् एतादृशार्थफलं अनत्ति स्वयं स्वप्रकाशात्मकत्वात् स्वयमेवानुभवतीत्यर्थः। विकारकार्यहेतुकसामग्रीविषयककार्यानुभवशरीरमस्थात्मनो भोगयोग्यं स्यादित्यत आह --सतीति । सति शरीरे भोगाय ॥२७॥ शरीरे सति सर्वविषयभोगार्हत्वमात्मना सम्पादितमित्याहे. त्यर्थः । शरीरिणः कान्यङ्गानि? पञ्चेन्द्रियाणामप्यङ्गत्वं प्रतिपादितम् । मनस अगोचरत्वेन मनसोऽन्तरिन्द्रियत्वेन षडित्युपदिष्टम् । षण्णामात्मनो भोगविषयप्रापकहेतुभूतार्थत्वात् । तस्माच्छरोरस्य भोगयोग्यत्वमिति स्वत एव सिद्धत्वात् । विषयविज्ञानमिन्द्रियाधीनं, इन्द्रियाणि च शरीराधिष्ठितानि । सर्वविषयाः शरीराधीना इत्यर्थः । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy