SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्न: * योग्यैस्तच्च निवर्तयेत् ॥७॥ अभिघातामयजन्यरुविर्तकरेचकोपयोगिद्रव्यरसैः भाव्यं यत् तद्योग्यमित्यर्थः । यावदभिघातामयस्तच्छन्दार्थः । तं निवतकद्रव्येण रेचयेदिति । अत्र सूत्रवचनं आमदोषं महाघोरं वर्जयेद्विषसंशितम् । विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः । ॥ ननु इन्द्रियाणां रोगहेतुकत्वं प्रतिपादयितुं इन्द्रियातिलालनातिपीडनाद्भवतीति यदुक्तं तन्न रोचते। अतिमात्रभोजनमामहेतुकं भवति । आमसंग्रह एव सर्वरोगकारणम् । आमानवर्तकत्वं युक्तमित्यस्वरसादाह-अनामेति । अनामपालनं कुर्यात् ॥ ८॥ यस्मादामसंग्रहाभावस्यैव रोगाभावहेतुकसामग्रीत्वं तस्मादनामपालनं प्रत्यहं विधिरिति । आम पालयतीत्यामपालनं, आमपालनं न भवतीत्यनामपालनं कार्यमित्यर्थः । अत्रअनामपालनकर्मकरणस्य हेतुवचनं सूत्रे प्रतिभातम् । मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका । माशं द्रव्याण्यपेक्षन्ते गुरुण्यपि लघून्यपि ॥ ननु ज्वरादीनामप्रवर्तकसामग्री जठराग्निप्रवर्तकसामग्री । तस्मादनामपालनमप्रयोजकं स्यादित्यत आह-आममिति । आमं हि सर्वरोगाणाम् ॥ ९ ॥ आममेव कारणमिति, हिशब्दः प्रसिद्धिवाचकः । अत्र सूत्रवचनम्* योगे. + अष्टाङ्गसूत्रम्. VHII-14. अष्टाङ्गसूत्रम्. VIII-1.. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy