SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir एवमाकारेण विकारं ज्ञात्वा तन्निवर्तनं पथ्यादनमेव भाव्यम् । तद्धेतुभूतार्थं त्विदमेव संरक्षणीयम् । हीनातिमात्रान्नादनं विकारहेतुकम् । तनिवर्तकहेतुभूतार्थं रक्षणीयमिति तात्पर्यम् । 3 इन्द्रियातिलालनातिपीडनयोः विकारहेतुकत्वं न स्यादित्यस्वरसादाह नेति । नेन्द्रियातिलालनातिपीडनौ ॥ ४ ॥ इन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिहाम्राणानि । तेषां शब्दस्पर्शकपरसगन्धा विषयाः । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि । हितमितप्रवृत्तिविषयकं कुर्यादित्यर्थः । ननु हीनभोजनातिभोजनयोः रोगहेतुकत्वं प्रतिपादितम् । तत्र वचनं * भोजनं हीनमात्रं तु न बलोपचयौजसे । अतिमात्रं पुनस्सर्वानाशु दोषान्प्रकोपयेत् ॥ एतद्वचनानुसारेण अनयोरेव हेतुत्वं प्रतिपादितं नेन्द्रि यातिलालनातिपीडनयोः । तस्मादेतत्सूत्रं व्यर्थं स्यादित्यस्वरसादाह - दोषेति । दोषवृद्धिक्षयोपपादकौ ॥ ५ ॥ दोषाणां वृद्धिरपि दोषरोगहेतुर्भवति । दोषाणां क्षयोऽपि दोषप्रकोपहेतुर्भवति । दोषहेतुकत्वं नाम दोषप्रकोप हेतुकत्वम् । दोषविकारस्य वृद्धिक्षययोश्च कार्यकारणभाव उद्दिष्टः नेन्द्रियातिलालनातिपीडनयोरिति । अत्र वचनं - न पीडयेदिन्द्रियाणि न च तान्यतिलायेत् । + अष्टाङ्गसूत्रं. VIII—3-4. + अष्टाङ्गसूत्रं. I -- 29, For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy