SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चमप्रश्न: 215 murarium-~-- म्भकज्ञानानुभवात्मकत्वं तत्तैजसावयवाधिक्यपञ्चभूतात्मकमिति तादृशगुणविशिष्टपञ्चभूतात्मक व्याधिक्यादनं वह्निभूतावयवविकारहेतुकम् । _____ एवं सर्वद्रव्येषु योजनीयम् । तथाहि--पार्थिवद्रव्यावयवाधिक्यादनं पार्थिवद्रव्यावंयवविकारहेतुकम् । जलाधिक्यगुणोपलम्भकरसाधिक्यद्रव्यादनं जलद्रव्यावयवविकारहेतुकम् | वह्निद्रव्यावयवधिकारकारकं वह्नयाधेिक्यगुणोपलम्भकरसाधेिक्यद्र व्यादनम् । इति यथायोग यावद्रोगघातात्मकषड्रसद्रव्याणां नानारोग. निवर्तकत्वं प्रतिपादितम् । तच्चिन्त्यम्, तथाहि एतत्प्रयोजनं दोषत्रयप्रकोपकारकत्वं दोषत्रयप्रकोपनिवर्तकत्वं च । देशदेहकालभेदेन तत्तद्दोषनिवर्तकमिति प्रतिपादितम् । तन्न क्षोदक्षममित्यस्वरसादाह--स्वस्थेति । स्वस्थास्वस्थास्सामजामयास्सदोषगा विदोषगा': ॥१७॥ यावत्पार्थिवद्रव्यादनेन दोषाः स्वस्था भवेयुः, यावद्विरसद्रव्यादेनन अजीणे जाते सति अन्योन्यस्थानस्थितत्वात् अस्वस्था भवेयुश्च । निर्दिष्ट कार्यव्यतिरिक्तकार्यकारकत्वं तेषामेवावच्छेदकम् । तत्तद्रव्यादनम् दोषाणां स्वस्थत्वकारकम् । विरुद्धगतिकार्यहेतुभूतद्रव्यादनजन्या ये त एव सामजामयाः । तेषां निवर्तकद्रव्यादनेन नीरोगत्वम् । सदोषेति-तत्र दोषाणां ये विकृतास्ते विकारग्रस्ताः । धातुशोषकशरीरमार्ग गच्छन्तीति ते दोषगाः तद्विकाराभावकार्यहेतुकरसद्रव्यादनेन विगोषगाः विकाररहिता भवन्तीत्यर्थः । . 1 ते दोषगा इति पाठ इति भाति. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy