________________
Shri Mahavir Jain Aradhana Kendra
180
www.kobatirth.org
आयुर्वेदसूत्रे
Acharya Shri Kailassagarsuri Gyanmandir
धर्क इक्षुकाण्डादिद्रव्यजन्यरसवद्द्रव्यत्वात् । रसासृग्धात्वाभिवर्धकस्स्थावरनिष्ठस्वादुरसो भवतीत्यर्थः ।
स्थावरनिष्ठाम्लरसस्य प्रयोजनमाह-- आम्लेति ।
आम्लरसादनं मांसधातुप्रदं भवति ॥ ४१ ॥
स्थावराणां लवणरसस्यप्रयोजनमाह - लवणोति । लवणरसो मे दोधातुप्रदः ॥ ४२ ॥
स्थावराणां लवणरसः जङ्गमशरीराणां मेदोश्रातुप्रवर्धको भवतीत्यर्थः ।
ननु स्थावराणां स्वादुरसः पवनप्रकोपकारकः । जङ्गमशरीराणां स्वादुरसः पवनप्रकोपहारक इति भेदकथनं कथं वक्तुं शक्यते । तद्वदेव षड्रसानां गुणप्रदानं भेदद्रव्यस्यैव वक्तुं शक्यत्वात् स्थावराणां गुणप्रदानं षड्रसानां तत्तज्जात्यवच्छेदेन भेद एव स्यादित्यस्वरसादाह आद्येति ।
आद्यद्विधातुसारं जङ्घापद्महेतुकम् ॥ ४३ ॥
तिक्तरसाभिवर्धितं मेदोधात्वन्तस्स्थितदशदळपद्मं कण्ठप्रदेशगतम् । सहस्त्रसिरादागतामृतं तस्य पोषकम् । आद्य इति - स्वादुरसवद्द्रव्यम् । द्वे इति - क्ष्माम्भसोरेक। भूताधिकजातद्रव्यगुणसारं स्वादुरसवद्दव्यं तदेव निवर्तकं भवतीतियत् तत्कथं ज्ञातुं शक्यते ? शुक्लधातुपोषकस्वादुरसं आद्यद्विधातुरसासृग्धातुदृष्यं भवति : जङ्गमद्रव्यनिष्ठस्वादुरसं सर्वधातुपोषकम् । त. गव्यं पयः गव्यं घृतं रसासृग्धातुविकारानिवर्त्यतद्धातुपोष्यं भवति । तत्स्वादुरसस्य सर्वशरीरपुष्टिकरत्वात् अनिल1 अस्थिधातु - इति A कोशे.
For Private And Personal Use Only