SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 102 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे नगोचरज्ञानजन्यकार्यमनित्यं भवति । आत्मनो नित्यद्रव्यत्वात नित्यद्रव्यविषयक ज्ञानगोचरज्ञानमेव आनन्दो भवति । अन्तरि न्द्रियस्य मनसः आत्मगोचरस्वभावत्वेन सर्वकाले आनन्दानुभव लभ्यत इति आत्ममनस्संयोगस्यैव योगत्वात् योगः शाश्वतं फलं प्रयच्छतीत्य र्थः । ननु परमात्मनो नित्यद्रव्यात्वाद्विभुत्वाच्च सर्वदा मनस आत्मना समवेत्य स्थितत्वात् सर्वदा आनन्दानुभव एव भवेत् इन्द्रियस्यार्थेन समवेत्य प्राप्यप्रकाशत्वनियमात् । तज्ज्ञानगोच. रज्ञानं आत्मनो विषयीकृतं भवतीत्यत आह- प्रकृतीति । प्रकृतिपुरुषान्तर्मुखज्ञानगोचरप्रत्यय प्रकृतिपरि णामो योगः ॥ ३ ॥ 1 प्रकृतिविशिष्टपुरुषं विषयीकृत्य अन्तरिन्द्रियेण मनसा गुणविशिष्टपरमात्माने विषयीकृते सति बाह्येन्द्रियार्थविषयज्ञानविरामेण ताद्दशगुणविशिष्टपरमात्मानुभवस्य परमानन्दहेतुकत्वात् तद्विषयकज्ञानयोगः परिणामयोग इत्यर्थः । प्रकृतिपुरुषविशिष्टद्रव्यं यदा विषयो भवति तदा आनन्दानुभव इत्यर्थः । तथा सति विष - यानन्दमुद्दिश्य प्रकृतिविशिष्टात्मविषयकशानं परमानन्दहेतुकमिति सर्वदा अयमानन्दानुभवं विषयीकरोतु किं बाह्येन्द्रियविषयगोचरज्ञानेन, अल्पानन्दानुभवहेतुकत्वादित्यत आह-रज इति । रजउद्रेकादस्थिरं बहिर्मुखात्सुखदुःखहेतु ||४|| परमात्मा कंचित्कालं राजसगुणविशिष्टो भवति । कंचित्कालं सात्विकगुणविशिष्टो भवति । कंचित्कालं तामसगुणविशिष्टो भवति । यदा जीवात्मनि राजसादिगुणाः आत्मभावा भवन्ति For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy