SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयप्रश्न: Acharya Shri Kailassagarsuri Gyanmandir 99 अवयवाश्च कालश्च देशश्चेति एतानुद्दिश्य तत्तद्योग्यद्रव्यं एधितं हितं निवर्तकं भवतीत्यर्थः । शोषकपोषकद्रव्यस्य इयं व्यवस्था कृता । एवं प्रतिमासं चिकित्साकरणं कर्तुमयोग्यम् । वर्धिष्णोः शरीरस्य वृद्धिकरणद्रव्यादनमेव योग्यमित्यस्वरसादाह-यावदिति । यावद्वार्धिकास्तत्र भेषजाः ॥ ९४ ॥ वार्धिकद्रव्यमात्रं प्रशस्तं भवति । तथा चेदतिप्रसङ्गस्स्यात् । यावच्छब्दार्थमहिम्ना यावद्योग्यरसवव्यादनं विवक्षितामित्यर्थात् । न केवलं यावद्वार्धिकद्रव्यं वृद्धिकारकं भवति, कालवशात् शोषक कार्यगुणस्वभावत्वात् इत्यत आह-- सर्पिषेति । सर्पिषा पोष्यपोषकाः ॥ ९५ ॥ यावद्वार्धिकद्रव्यं सर्पिस्संयोगानलपाकजन्यं संस्कारविशिष्टपाकरसवद्दव्यं कार्यकारकं भवति, स्नेहवव्यसंयोगजन्यवार्धिकगुणप्रापकद्रव्यत्वादित्यर्थः ॥ አ लङ्घनादिना दोषे क्षीणे सति धातुशोषे सति तत्र पोषकद्रव्यं कार्यकारकं "असो पोषणकरो भवतीति " । तत्र शोषकद्रव्येण निवर्तककरणं अयोग्यमित्यत आह--नेति । न पोषककाले शोषकाः ॥ ९६ ॥ पोषक कार्यकरणयोग्यकाले शोषकद्रव्यकालोचितकरणं अयो ग्यमित्यर्थः । ननु पोषकाश्च शोषकाश्च लोके व्यवहारयोग्याः षड्रसा एव । एकैकरसवद्दव्यस्य एकैकधातुपोषकत्व प्रयोजकत्वमागतम् । तावत्पोषकत्वस्य स्वत एष सिद्धत्वात् । रसवहूव्यातिरिक्तद्रव्याभावादित्यस्वरसादाह - पड़सा इति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy