SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे गाभावकार्यस्य कारणत्वप्रतिपादनमात्रे पर्यवसितम् । तावद्रोग निवर्तकं प्राते हेतुत्वं प्रतिपादितम् । न तद्गर्भसंरक्षणमात्रस्य हेतुत्वंप्रतिपादकावस्थेयम् । अत्रेदं द्योत्यते-पिण्डाभिवर्धककर्ममात्र प्रतिपादितमित्यस्वरसादाह --एधन्त इति । एधन्तेऽस्मा ऋतवः ॥८५॥ अत्र ऋतव इत्युक्ते षडतूनां वार्धिकत्वं प्रतिपादितम् । इदं तु ऋतुप्रतिपादकप्रकरणं न भवति, किं तु गर्भाशयस्थपिण्डाभिवर्धककार्यस्य हेतुत्वप्रतिपादकावस्थेयम् । अत्रेदं न द्योत्यते, पिण्डाभिवर्धककार्यमात्रप्रतिपादकत्वात् । तथाहि-ऋतुकोद्देश्य ऋत्वभावकार्यहेतुत्वाभिवर्धककर्मादिविशिष्टकालज्ञापकत्वं ऋतुरिति । तादृशविशिष्टकालो गर्भाशयस्थपिण्डावयवाभिवर्धकद्रव्यादनादृत्वभावावशिष्टकार्या एधन्त इत्यर्थः ॥ - ननु ऋत्वभावावेशिष्टकालाभिवर्धनेन कथं पिण्डावयवाभिवृद्धिः? तद्योग्याभावकालस्य अदृष्टत्वादित्यस्वरसादाह- अन्नेति । अन्नाद्भूतानि जायन्ते ॥ ८६ ॥ पिण्डाङ्कराविर्भावहतुकयावव्यादनं ऋत्वभावकार्यहेतुकं भवतीति सोर्थोऽत्र विवक्षित इत्यर्थः । सर्वरसद्रव्यादनस्य सर्वेषामपि सम्भावितत्वात्, सर्वत्रापि कार्यस्यादृष्टत्वादित्यस्वरसादाह-जातानीति। जातान्यनेन वर्धन्ते ॥७॥ जातपिण्डाशयः पूर्वोक्तरसद्रव्यादनहेतुरिति प्रतिपादितमित्यर्थः॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy