SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०२ आत्मतत्त्वविवेके सटीक विशेषलक्षणस्येति । त्वया जातिमात्रस्य मया ज्ञाने संस्का(१)रस्यातिरिक्रम्यानभ्युपगमात् स्वरूपासिद्धिः । ननु कार्यप्रवाह एव संस्कारस्तथा च नाश्रयासिद्धिस्वरूपा सिद्धी इत्यत आह । अविशिष्टेति । नौलानुभवोत्तरकार्यप्रवाहो घटपटादिसन्तानोऽपि भवति तत्र म्मृतिरूपं फलजनकत्वं विरुद्धमित्यर्थः । संस्कारस्य स्वसन्ताने फलजनकत्वं सम्भाव्यते न तु प्रवृत्तिविज्ञानसन्ताने व्यधिकरणत्वात्। किञ्च विशेषलक्षण: स्थिरातीन्द्रिय २)लक्षणविशेषगुणस्त्वन्मते स्वरूपासिद्धः नौलानुभवोत्तरकार्यप्रवाहमात्रस्यैव संस्कारपदवाच्यत्वं विरुद्ध ३) घटपटादौ सुखादौ च संस्कारपदवाच्यत्वप्रसङ्गादिति वार्थः ॥ भगौ० टौ० । ननु संस्कारसन्तान एव संस्कारो जायते ततस्तत्रैव स्मृतिर्न तु प्रवृत्तिविज्ञानसन्ततावित्याशक्य निराकराति । अतिरिकेति । उत्तरबुद्धिधारातिरिक्तसंस्कारपक्षे हेतोः स्मृतिहेतोः संस्कारस्य व्यधिकरणत्वात् प्रवृत्तिविज्ञानरूपात्मनि स्मरणासत्वप्रसङ्गः । न चेष्टापत्तिः। अनुभवितुरस्मरणे योऽहमन्वभूवं सोऽहं स्मरामौत्यनुभवविरोध इत्यर्थः । विशेषलक्षणस्येति । उत्तरबुद्धिधारारूपसंस्कारपक्षे तस्य यो विशेषोऽनुभवितसन्तानापेक्षया वैजात्यं, तस्याननुभवेन स्वरूपमसिद्धमित्यर्थः । अविशिष्टेति । अविशिष्टोत्तरबुद्धिप्रवाहमात्ररूपत्वे संस्कारस्याननुभविटसन्तानेऽपि स्मरणप्रसङ्गेन तत्रव म्मृतिरित्यस्य विरुद्धत्वादिति वरम् । (१) संस्कारत्वजातेरनभ्युपगमादिति २ ५० पा० । (२) आत्मविशेषगुणत्व इति पाठः। (३) विरुद्ध नास्ति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy