________________
Shri Mahavir Jain Aradhana Kendra
७७६
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
कारणताखण्ड कत्वात् । श्रतएवोकं । तावन्मात्रनिबन्धनमिति । प्रतिसन्धानमिदमतन्त्रमिति शङ्कते ।
ज्वालादिप्रतिमन्धानवत् प्रतिसन्धत्त इति । दोषाजन्यत्वाम्नेदं भ्रान्तमित्याह । तत्कि - मिति । स्वरस्रवाहिनि विपर्यये दोषः कारणमयन्त्वाहार्य इत्याह । श्राहार्य इति । निबन्धनाभेद इति । बुद्धीनां कार्यकारणभावो निबन्धनं तच्च सर्वज्ञस्यापीति कथमयमाहार्य इत्यर्थः । मादृशा भेदं बुद्धौनां न पश्यन्ति तेनास्मदादीनां योऽहं मोऽहमित्यभेदोल्लेखिप्रतिसन्धानं स्वरसवाहि, सर्वज्ञस्तु बुद्धिभेददर्शौ तेन तस्यायें प्रतिसन्धान मित्याशङ्कते । भेदेति । श्रस्मदादीनामयि बुद्धिभेदग्रहोऽस्त्यवेत्याह । प्रवृत्तौति । बुद्धिभेदग्रहो विषयभेदग्रहणान्यथासिद्ध इति शङ्कते । विषया दूति । तासामपीति । बुद्धीनामपौत्यर्थः । धारावहनादौ विषयभेदप्रथनं नास्ति, तथापि बुद्धीनां भेद एव गृह्यत इत्याह । विषयेति । ननु च बुद्धित्वेन बुद्धीनां भेदाग्रहस्तत्राऽप्यस्त्येवेत्यत श्राह । यदि चेति । एवं मति पार्थिवत्वेन गृह्यमाणानां काष्ठाङ्गाराणामपि भेदो न भामेतेत्यर्थः ।
:
भगौ० टौ० । अथवेति । श्रयं कार्यकारणभावः । महि निरपेक्षः प्रतिसन्धानजनकः, सापेक्षो वा, अन्त्ये गत्यन्तराभावात् स एवैकः कर्तति सिद्धम् । श्रद्ये तावन्मात्रस्येति । सर्वज्ञ इति । सर्वज्ञस्य भिन्नकालौनस्वज्ञानाभावानामेककर्तृकत्वप्रतिमन्धानात् स्थिरः कर्ता सिद्ध: तस्य भ्रमाभावादित्यर्थः । नन् क्षणिकज्ञानसन्तान एवाहमास्पदं स्यादित्यत श्राह । ज्ञानादिति । तथापि
For Private and Personal Use Only