SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२६ व्यत्मतत्त्वविवेके सटीके 1 लभ्यते भिन्नं चेति । देशाविच्छेद इति चेन्न । असिद्धेः, देहदेहिभ्यामनैकान्ताच्च । न तयोरविच्छेदस्तदनुपलम्भेप्युपलम्भादिति चेत्, तुल्यम्, रूपाद्यनुपलम्भेपि तद्दतामुपलब्धेः । तथापि न विपर्ययः कदापीति चेत्, तुल्यम् । न हि देहाद्यनुपलम्भे देह्यनुपलम्भवद्देह्यनुपलम्भेपि देहस्योपलम्भसम्भवस्तव दर्शने । प्रतिपत्तिनिष्पत्तिसामग्रीसाहित्यनियमेन सहोपलम्भो वा देविच्छेदो वा स्यात् नियमेन विरुद्धधर्माध्यासादश्चेति को विरोधः । धर्मविरोध एव कोऽति चेत्, तदुपलम्भेप्यनुपलम्भः तदभिधानेप्यनभिधानं तन्निषेधेष्यनिषेध इत्यादि । नौलमुत्पलं चलतीत्यादौ च व्यावृत्तिभेदनिराकरणे पूर्वक एव न्यायोऽनुसन्धेयः, अन्यचोपाधिभेदात् । T शङ्क० टौ० । नापौति । गुणेन सहैव गुणिनोऽनुपलम्भेपि गुणिना सहैव गुणोपलम्भ इत्यमममहोपलम्भो गुणगुणिनोरभेदसाधकोऽस्त्विति शङ्कार्थः । श्रचानैकान्तिकतामाह । श्रभास्वरेति । घटरूपमालोकरूपेण सहैवोपलभ्यते न च तयोरभेद इत्यर्थः । तयोर्घटरूपालोकरूपयोर्भिन्नदेशत्वमतः महोपलम्भेपि नाभेद दू तु देशाविच्छेद इति गुणगुणिनोरभेदः स्यादित्याह । देशाविच्छेद इति । पूर्वहेतु विशेषणम्। स्वतन्त्रो वा हेतुः उभयमपि गुणगुणिनोरमिद्धमित्याह । नासिद्धेरिति । रूपस्य शङ्खदेशत्वात् शङ्खस्य च स्वावयवदेशत्वादित्यर्थः । देहेति । देहौ तन्मते ज्ञानविशेषः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy