SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ६६५ विने ति न व्यभिचार इत्यर्थात्। न च स्वपदम्य प्रामाण्यमात्रपरत्वात्तदयाह्यत्वे बाधः, स्वपदस्य सम्बन्धिमब्दत्वेन समभिव्याहतपरत्वात्, अन्यथा परस्थापि स्वत्वात् स्वस्यापि परत्वात् स्वतः परतो वेति संशयो न स्यात् । विस्तरस्त्वन्यत्र ॥ रघ. टी. । किं तेनेति । विना विपरीतशङ्कानिरामं प्रामाण्यज्ञानमात्रस्य निष्कम्पप्रवृत्त्यक्षमत्वा दित्यर्थः। घटो जात इति प्रत्यक्षं न ज्ञानस्य वैशिष्ट्यमवगाहते, नयनादेरात्मगुणाग्राहकत्वात्, मनसश्च बहिरस्वातन्त्र्यान्, अतीन्द्रियत्वाच्च ज्ञानस्य, परन्त्वतिरिक्ताया एव जाततायाः, सा च विशेषणप्रकारिका विशेष्यवृत्तिरयं घटत्वेन जात इत्यनुभवात् । जन्यते च समानप्रकारकेण स्वाश्रयविप्रोग्यकेण ज्ञानेन। तया चानुमौयमाने ज्ञाने १ प्रमात्वमेव मिद्ध्यति । तथा हि। दयं ज्ञातता घटवियोव्यकघटत्वप्रकारकजानजन्या, घटनिष्ठ घटत्व प्रकारक जाततात्वात्, या यनिष्ठा यत्पकारिका जातता मा तद्विशव्यकतत्प्रकारकज्ञानजन्या, यथा पटनिष्ठा पटत्वप्रकारिका ज्ञातता पटविशेष्यकपटत्व प्रकारकजानजन्येति सामान्यतो, विशोषतो वा यथा घटान्तरे घटत्वप्रका रिका ज्ञातते ति, अवगाहते चेन्द्रियमन्निकर्षादिवशात् प्राथमिक मित्र ज्ञाततावगाह्यपि प्रत्यक्षं धर्मिणो विशेषणवत्ताम् । अत एव चायं घटो घटत्वेन ज्ञात इत्यनुभवः । अत एव चाप्रमापि प्रमेत्येव (१) ज्ञानं प्रमात्वेनेव सियति १ पु. पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy