________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४
यात्मतत्त्वविवेके मटौके
केचित्त घटादिव्यवहारप्रयोजकस्य तद्विषयत्वस्य नित्यज्ञाननिष्ठत्वे सर्वदा तद्द्यवहारापत्तिः, नित्यज्ञानस्वरूपानतिरिक्रम्य च तस्य मामग्रौविशेषजन्यताया वक्रमशक्यत्वात् । एवं घटविषयत्वेनानुव्यवमायदशायां पटविषयत्वेनापि तदापत्तिरित्याहु: । तच्चिन्त्यम् ।
प्रकाशस्येत्यादि। तदौयता तत्सम्बन्धित्वम् । स्वभाव: स्वरूपम् । तथा च ज्ञानस्वरूपमेव ज्ञानस्यार्थन सम्बन्धः, सम्बन्धमम्बन्धिनोश्चाभेदो न दोषाय. मर्वत्र स्वरूपमम्बन्धे तथैव कल्पनात् । मामान्यतश्च विषयता ज्ञानस्वरूपम्, घटादिविषयता तु सम्बन्धिना घटादिना अनुगता, ज्ञान विशेषा एव मंयोगविशेषा दव घटादीनां सम्बन्धाः, व्यवहारनिमित्तं च ज्ञाननिष्ठमर्थमम्बन्धित्वम्, नार्थनिष्ठं ज्ञानसम्बन्धित्वम्, अतीतानांगतज्ञानव्यवहारानुरोधादिति वदन्ति । __ दण्डपुरुषसंयोगाः ज्ञानघटविषयता दतिवच्च ज्ञानघटाविति समूहालम्बनेपि न विशिष्ट व्यवहारादिः ज्ञानविशेषम्यैव तत्र तन्त्रत्वादिति ।
अत्र वदन्ति । यदि ज्ञानस्वरूपमेव विषयता, तदा घटपटाविति ममूहालम्बनस्य पटत्वघटत्वावच्छिन्नघटपटीयस्वात्मकविषयताशालिवाङ्गमत्वापत्तिः । अथ यथा ममवायोऽनवच्छिन्न एव मत्ताया, रूपमयोगाद्यवच्छिन्नश्च रूपमयोगादेः मम्बन्धस्तथा निर्विकल्पकं ज्ञानमनवच्छिन्नमेव, मविकल्पकं तु तत्तत्प्रकारावच्छिन्नं विषयता, समूहालम्बने घटपटत्वाद्यवच्छिनं ज्ञानं घटाटेभ्रमे तु घटत्वाद्यवच्छिन्नं पटादेरित्यदोष इति चेत्, तर्हि
For Private and Personal Use Only