SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir ५१३ निर्विषय: स्यात्, तथा च प्रवृत्त्यनियमः स्यादिति वाच्यम् । तथापि तं करोमि न तु वेद्यौति कदाचिज्ज्ञानोपगमात् ज्ञानान्तरं तत्रोत्पद्यत इति तु तुल्यम् । तथापि प्रयत्नजनकं ज्ञानं नास्ति, तच्च सम्बन्धरूपमिति चेत्, न तद्विषयत्वेन तस्य कारणता, तद्विषयज्ञानमात्रस्यैव सम्बन्धत्वरूपत्वात् । न चैवमीश्वरेच्छादिकमविषयं स्यात्, जनकज्ञानाभावादिति वाच्यम् । यद्विषयकस्य ज्ञानस्य यद्विषयकेच्छाधिकरणचणाव्यवहितपूर्व क्षणे नियमेन यत्सत्त्वम्, तज्ज्ञानोपाधिकमिच्छायास्तद्विषयत्वमित्यस्येश्वरेच्छासाधारणस्य नियामकत्वादिति सङ्क्षेपः । मनु तदीयतानियामकं तेनोपकृतत्वं तष्ठिोपकारजनकत्वं वा तत्र नास्तीत्यत श्राह । स्वभावादेवेति । उपकाराधानेपि स्वभाव एव नियामक इति भावः ॥ रघु० टौ० तस्मादिति । अनुभवो हि कखिदिदं नौलमिति, कश्चिचमे नीलपीते मिथोभिने इति, न चेयं व्यवस्था ज्ञानाकारेणोपपादयितुं शक्यते दूति मतोऽस्तो वा ज्ञानभिन्नस्य भान मावश्यकमित्यर्थः । तत्सिद्धौ बाह्यग्राह्यत्वसिद्धौ । तलचणं ग्राह्यत्वनियामकम् । तच्च व्यवहारविशेषनिमित्तं ज्ञानार्थयोर्विषयविषयिभावरूपं, बाह्याविरोधे बाह्यस्य पारमार्थिकत्वे, तन्निष्ठं ज्ञाननिष्ठम् । उभयनिष्ठं ज्ञानमर्थश्चेत्युभयम् । ग्राह्यमलोकं ज्ञानं चानित्यमितियोगाचारमते प्राह । बाह्येति । ज्ञानं नित्यं प्रपञ्चस्तु अतात्त्विक इति वेदान्तिमते त्वाह । तन्नित्यतायामिति । निमित्तमुक्तं प्राक् । 65 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy