SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटौके शरीरनिष्ठनैरात्म्य ज्ञाने तनये श्रात्मनो भानानभ्युपगमात् मदसतारेकज्ञानाविषयत्वात् । प्रतियोग्यादेरलौकल्वे ऽपि प्रभावम्य सत्यत्वात्। न च तथाप्यात्मन: पारमार्थिकत्वनये ऽहं सुखोत्यादिजानस्य संसारदशोत्पन्नस्य तत्त्वज्ञानतया ततो मोक्षापतिर्दुर्वारा इति वाच्यम् । तादृशज्ञानस्य तत्त्वज्ञानत्वे ऽपि मिथ्याज्ञाना निवर्तकतया मोक्षाजनकत्वादिति भावः ॥ तत्र बाधकं भवदात्मनिर) क्षणभङ्गो वा बाह्यार्थभङ्गो वा गुणगुणिभेदभङ्गो वा अनुपलम्भो वेति ॥ शङ्क० टौ० । बाधनिरासमन्तरेणोच्यमानमप्यात्मनि प्रमाणमतन्त्रमेवाता विशिष्ट अात्मनि बाधकमाशय निराचष्टे । तत्रेति। नेरात्म्यवादिनामस्मदभिमतात्मनि बाधकान्येतान्येवेति क्रमशो निरसनौयानि । वेदान्तिनोप्यापाततो नैरात्म्यवादिन एवेति तन्मतमपि दृश्यत एव(२) । तथा च श्रुतिभ्यः समधिगते (२)प्यात्मनि सङ्कसुकता निवृत्तये न्यायः प्रवर्तनीयः । स च न बाधनिराममन्तरेणाङ्गं धारयतौति प्रथमं बाधकनिरासारम्भ इति भावः । क्षणभङ्गादिपदं च तत्साधकप्रमाणपरम् तत्र क्षणभङ्गे नित्यत्वभङ्गः । बाह्यार्थभङ्गे ज्ञानभिन्नात्मनोऽसिद्धिः । बाह्यत्वं च ज्ञानभिन्नत्वमेव । गुणगुणिभेदभङ्गे ऽपि तथा । अनुपलम्भे तु स्वरूपस्यैवासिद्धिः । (१) तत्रात्मनि बाधकं भवत्-पा० १ पु० । अयमेव मथुरानाथसम्मतः । (२) सन्मतमपि दूष्यमेव-पा० १ पु०। (३) समवगते-पा० २ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy