SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०४ www.kobatirth.org व्यत्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir किमतोर्थानिव वासनावशादेव तैः समं तत्तच्छन्दानां सङ्केतं प्रतिपद्यन्ते किं वा वासनोपनीतेषु तेषु स्वरुतं तत्तच्छन्दतं प्रतिपद्यन्त इति नाद्यः शशादिप्रत्येकपदार्थाव्युत्पन्नस्य विषाणादिशब्दादर्थप्रत्यचप्रसङ्गात् ॥ न च सर्वे प्रतिपत्तारः स्वस्ववासनया सदर्थ शब्दसम्बन्धप्रतिपत्तिभाज इति साम्प्रतम् परस्परवार्तानभिज्ञतया अपरार्थत्वप्रसङ्गात् न हि स्वयं कृतं समय ( )मग्राहयित्वा परेरा व्यवहारयितुं शक्यते न च व्यवहारे पदेशावन्तरेण ग्राहयितुमपि । न च गां वधानेतिवत् शशविषाणपदार्थे व्यवहारः न चायमसावश्व इतिवदुपदेशः न च यथा गैस्तथा गवय इतिवदुपलक्षणातिदेशः न चेह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतौतिवत् प्रसिद्धपदसामानाधिकरण्यम् । शङ्क ० टौ ० 。 | ननु वामनयैवोपस्थितेर्थे श्रोतुः सङ्केतग्रहः स्वादित्यत श्राह । न चेति । वक्तृश्रोत्रोः समानमङ्केता ज्ञानात् परार्थं तत्प्रयोगो न स्यादित्यर्थः । अन्यथा घटाभिप्रायेण पटपदमपि प्रयुञ्जौतेति भावः । ननु स्वयमेव क्वचिदर्थे मतं परिकल्प्य शशविषाणादिपदप्रयोगः स्यादित्यत श्राह । न हौति । स्वयं मङ्केतकल्पनेपि परस्य तदज्ञानात । परार्थं प्रयोगानुपपत्ते (१) स्वयं कृतं सङ्केतं - पा० १ ५० | For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy