SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्ष गाभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir ११८ शङ्क० टी० । निर्विशेषणस्येति । श्रकरणत्वमात्रस्य बौजव्यक्तावसिद्धेः तदेवाह । यावदिति । अन्ततः संयोगादेरपि जननादित्यर्थः । सविशेषणस्येति । यदा तदेति । विशेषणसहितस्येत्यर्थः । तदेवाह । यदेति । अनयोर्विरोधसम्भवेप्यध्यासो नास्तीत्याह । न चेति । न हि यद्दीजं यदैवाङ्कुरं करोति तदैव न करोतीत्यभ्युप गच्छाम दूत्यर्थः ॥ भगी० टी० । निर्विशेषणस्येति । श्रकरणमात्रस्टेत्यर्थः । कदाचित्तत्र करणस्य मानमिद्धत्वादकरणमात्रस्याप्रमितौ तत्प्रतियोगिक विरोधस्यानमितेरिति भावः । यावदिति । श्रन्तः स्वाश्रयादिसंयोगादौनां जननादित्यर्थः । सविशेषणस्येति । यदा यत् करणं तदैव तदकरणमित्यनयोर्विरोधे ऽपि नैकत्र समादेश इत्यर्थः । तदेवोपपादयति । यदेति । श्रङ्कुराकरणकाले तत्करणं विरोधि न त्वन्यदापि तयोरेकधर्म्यसमावेश नियमात् । न चैकदाङ्कुरकरणाकरणे बौजे ऽङ्गीकुर्म इति भावः । न त्वन्यदेति । अभाव दूत्यनुषञ्जनीयम् ॥ रघु० टी० । निर्विशेषणस्य कार्यविशेषानियन्त्रितस्याकरस्य वस्तुनि क्षणभङ्गवादिनाममिद्धेर्विरोधस्यामित्वात् । यावत्सत्त्वं किञ्चित्करणात् किञ्चित्करणाभ्युपगमात् । श्रस्माकं तु तसिद्धावपि कालभेदादेव न विरोध इति भावः । यत्त्वस्माकमपि यावत्सत्त्वं संयोगादिजननमम्भवादिति । तदमत् कदाचिदवयविनस्तथात्व For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy