________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
यात्मतत्वविवेके सटीक
नास्ति सर्वप्रमाणागोचरस्तु विशेषोऽस्तौति विशुद्धा बुद्धिः क्वचिदुपयोगेप्येकस्य तेन रूपेण सर्वेषामविशेषस्ताद्रप्यात् । तथा च कथं किञ्चिदेव बीजं स्वकार्य कुर्यात् नापराणि न च वस्तुमावं तत्कार्यम् अवौजात् तदनुत्पत्तिप्रसङ्गात् । नापि बौजमात्रम् अङ्कुर कारिणोऽपि तदुत्पत्तिप्रसङ्गात् । नाप्यकुराद्यन्यतममात्रम् प्रागपि तदुत्पत्तिप्रसङ्गात् ॥
शङ्क० टौ । कृतमङ्करेति(१) । अङ्करत्वावच्छिन्नं कार्य प्रति बोजाना बोजत्वेनैव कारणतेति कि विशिष्य व्यवस्थापनग्रहेण प्रकारान्तरेणापि परिशेषादिना तथैव पर्यवस्थतीत्यर्थः । बौ जत्वेन क्वचित् कार्य बीजं यदि प्रयोजकं न भवेत् तदा तेन रूपेण तदसत् स्थादिति। तच्च कार्य परिशेषादङ्कुररूपमेव सेत्स्यतौति प्रघट्टकार्थः । बौजस्वभावत्वमिति । बोजत्वं किञ्चित्कार्य प्रति कारणतावच्छेदक न वेति विकल्पार्थः । न तत्वभावमिति । तर्हि बोजवं जातिरेव न स्यादित्यर्थः । ननु बोजवं मास्तु अङ्करकुर्वदूपत्वमेव तथा स्यादित्यत आह। एवं चेति। क्वचिदिति। बोजत्वेन रूपेण बोजानां किञ्चित्कायें प्रति जनकत्वाभ्युपगमे सर्वाण्येव(२) बीजानि तथा स्थः बोजत्वा विशेषादित्यर्थः । वस्तुमान मिति ।
(१) किमरेति- पा० १ पु० । (२) सर्वाण्य पि-पा० २ पु. ।
For Private and Personal Use Only