SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अम्ब ! तात ! मया धर्म्मः श्रुतः श्रीवीरसन्निधौ । संसारवासतस्तेन, निर्विण्णः प्रव्रजाम्यहम् पितरावूचतुर्वत्स !, त्वं बालोऽद्यापि वर्त्तसे । धर्म किमिह जानीषे, स्फटिकामलमानस ! मा (ता) सौ ! जाने यदेवाहं, न जानेऽहं तदेव हि । न जाने यत्तदेवाहं, जानेऽसावब्रवीदिति ततस्तौ तमवादिष्टां वत्सैतद् घटते कथम् ? । जाने यत्तन्न जानेऽह - मित्यादि वचनं तव उत्पन्नस्य ध्रुवं मृत्यु, रिति जानामि देहिनः । कदा कियच्चिरात्कस्मिन् कथं वेति न वेद्म्यहम् तथा न जाने यजीवाः, शुभ्र ( श्वभ्रं ) कैर्यान्ति कर्म्मभिः । एतत्पुनरहं जाने, यान्ति स्वकृतकर्मभिः इत्यादिवचनैस्तेन, पितरौ प्रतिबोधितौ । ततस्ताभ्यामनुज्ञातः कृतनिष्क्रमणोत्सवः आरुह्य शिबिकां रम्यां, सहस्रनरवाहिनीम् । सपित्रादिपरीवारः, पुरस्योपवनं ययौ विजयेन नरेन्द्रेण, श्रिया देव्या च सादरम् । विज्ञप्तः श्रीमहावीरः, पुरस्कृत्यातिमुक्तकम् भगवन्नावयोरिष्ट, स्तनयः शिशुरप्यसौ । विवेकी बुद्धिमानेष, निर्विण्णो भववासतः सचित्तां भगवन् ! भिक्षां, गृहाणास्माकमीदृशीम् । संवेगभाजनं चैनं, भवकूपात्समुद्धर तस्मै व्रतं वीरः, सर्वज्ञः शैशवेऽपि हि । मधुरोदारशब्देन, जगौ तत्पिरा विदम् धन्योऽयं पुण्यवानेष, लब्धं चास्य जन्म भोः ! । येनालम्भि परिव्रज्या, सर्वदुःखविमोक्षणी ततश्च विजयो भूपः श्रिया देव्या समन्वितः । विवेश नगरीं वीरं, प्रणम्य सपरिच्छदः For Private And Personal Use Only ॥ १४६ ॥ ॥ १४७ ॥ ॥ १४८ ॥ ॥ १४९ ॥ ।। १५० ।। ।। १५१ ।। ॥ १५२ ॥ ॥ १५३ ॥ ॥ १५४ ॥ ।। १५५ ।। ।। १५६ ॥ ।। १५७ ।। ।। १५८ ।। ॥ १५९ ॥ Acharya Shri Kailassagarsuri Gyanmandir
SR No.020078
Book TitleAtimuktakmuni Charitram
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJinduttasuri Gyanbhandar
Publication Year1945
Total Pages27
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy