________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥१५॥
मन्यते पुरुषः सदा। पुंसः कार्यविशिष्टत्वं, नियोगोऽस्य च वाच्यता ॥१४॥ कार्यस्य सिद्धी जातायां, तयुक्तः पुरुषस्तदा। भवेत्साधित इत्येवं,पुमान् वाक्यार्थ उच्यते।१५। सोऽयमेकादशप्रकारोपिनियोगो विचार्यमाणो बाध्यते, प्रमाणाद्यष्टविकल्पानतिक्रमात् । तदुक्तम् ।-प्रमाणं किं नियोगः स्यात्, प्रमेयमथवा पुनः। उभयेन | विहीनो वा, द्वयरूपोऽथवा पुनः॥१॥ शब्दव्यापाररूपो वा, व्यापारः पुरुषस्य वा। द्वयव्यापाररूपो वा, द्वयाव्यापार एव वा ॥२॥ तत्रैकादशभेदोऽपि नियोगो यदि प्रमाणं तदा विधिरेव वाक्यार्थ इति वेदान्तवादप्रवेशः प्रभाकरस्य स्यात्, प्रमाणस्य चिदात्मकत्वात् , चिदात्मनः प्रतिभासमात्रत्वात् , तस्य च परब्रह्मत्वात् । प्रतिभासमात्राद्धि पृथग्विधिःकार्यरूपतया न प्रतीयते घटादिवत् । प्रेरकतया वा नानुभूयते वचनादिवत् । कर्मकरणसाधनतया हि तत्प्रतीतौ कार्यप्रेरकताप्रत्ययो युक्तो नान्यथा । किंतर्हि द्रष्टव्योऽयमात्मा श्रोतव्यो निदिध्यासितव्य इत्यादिशब्दश्रवणादवस्थान्तरविलक्षणेन प्रेरितोऽहमिति जाताकूतेनाहङ्कारेण स्वयमात्मैव प्रतिभाति स एव विधिरिति वेदान्तवादिभिरभिधानात् (१) ॥ प्रमेयत्वं तर्हि नियोगस्यास्तु प्रमाणत्वे दोषाभिधानादित्यप्यसत्-प्रमाणाभावात् । प्रमेयत्वे हि तस्य प्रमाणमन्यद्वाच्यम्-तदभावे प्रमेयत्वायोगात् । श्रुतिवाक्यं प्रमाणमिति चेन्न-तस्याचिदात्मकत्वे प्रमाणत्वाघटनादन्यत्रोपचारात् । संविदात्मकत्वे श्रुतिवाक्यस्य पुरुष एव श्रुतिवाक्यमिति स एव प्रमाणम् । तत्संवेदनविवर्त्तस्तु नियुक्तोऽहमित्यभिमानरूपो नियोगः प्रमेयत्वमिति नायं पुरुषादन्यः प्रतीयते, यतो वेदान्तवादिमतप्रवेशोऽस्मिन्नपि पक्षे न
For Private And Personal Use Only