________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्री तदुक्तम् ।-"सुगतो यदि सर्वज्ञो कपिलो नेति का प्रमा। तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयो” रिति । विवरणम् ॥ ततोऽनकान्तिको हेतुस्तीर्थकरत्वाख्यो न कस्यचिन्महत्त्वं साधयतीति कश्चिदेव गुरुर्महान् भवेत् ? नैव भवे
दित्यायातम् । अत एव न कश्चित्पुरुषः सर्वज्ञः स्तुत्यः श्रेयोर्थिनां श्रुतेरेव श्रेयःसाधनोपदेशप्रसिद्धरित्यपरः। ॥१४॥
तं प्रत्यपीयमेव कारिका योज्या । तीर्थं कृन्तन्तीति तीर्थकृतो मीमांसकाः सर्वज्ञागमनिराकरणवादित्वात् । तेषां समयास्तीर्थकृत्समयास्तीर्थच्छेदसम्प्रदाया भावनादिवाक्यार्थप्रवादा इत्यर्थः। तेषां च परस्परविरोधादाप्तता संवादकता नास्तीति कश्चिदेव सम्प्रदायो भवेद्गुरुः संवादको नैव भवेदिति व्याख्यानात् । तदेवं वक्तव्यम् । “भावना यदि वाक्यार्थों, नियोगो नेति का प्रमा। तावुभौ यदि वाक्यार्थी, हतौ भप्रभाकरौ॥ १॥” इति। “कार्येऽर्थे चोदनाज्ञानं, स्वरूपे किन्न तत्प्रमा। द्वयोश्चेद्धन्त तौ नष्टौ, भवेदान्तवादिनौ॥१॥” इति । ननु च भावना वाक्यार्थ इति सम्प्रदायःश्रेयान , नियोगे बाधकसद्भावात्। नियुक्तोऽहमनेनाग्निष्टोमादिवाक्येनेति निरवशेषो योगो हि नियोगस्तत्र मनागप्ययोगस्य सम्भवाभावात् , सचानेकविधः, प्रवक्तृमतभेदात् । केषाञ्चिल्लिङादिप्रत्ययार्थः शुद्धोन्यनिरपेक्षा कार्यरूपो नियोगः (१)॥"प्रत्ययार्थों नियोगश्च, यतः शुद्धःप्रती
यते। कार्यरूपश्च तेनात्र, शुद्धं कार्यमसौ मतः॥१॥ विशेषणं तु यत्तस्य, किञ्चिदन्यत् प्रतीयते । प्रत्ययार्थों दिन तयुक्तं, धात्वर्थः स्वर्गकामवत् ॥२॥ प्रेरकत्वं तु यत्तस्य, विशेषणमिहेष्यते । तस्याप्रत्ययवाच्यत्वा-च्छुद्धे
कार्ये नियोगता॥३॥” इति वचनात् । परेषां शुद्धा प्रेरणा नियोग इत्याशयः (२)॥ प्रेरणैव नियोगोऽत्र, शुद्धा
॥१४॥
For Private And Personal Use Only