________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तादृशानुमितौ तथाविधानुमित्साविरहविशिष्टघटादिप्रत्यक्षेच्छाविशिष्टघटादिप्रत्यक्षसामय्या अपि प्रतिबन्धकत्वान्तरं कल्पनीयम् , एवं भिन्ने विषये शाद्वबोधसामग्रीसच्चे प्रत्यक्षसामग्रीसत्वे च प्रत्यक्षानुत्पादाद्भिनविषयकप्रत्यक्षं प्रति तथाविधप्रत्यक्षेच्छाभावविशिष्टशाद्वसामय्या अपि प्रतिबन्धकत्वं कल्पनीयमेवमन्यदप्यूह्यमिति, अत्र ब्रूमः, परामर्शादेः स्वसंविदितत्वादेव नानुमिति-13 सामग्रीकाले प्रत्यक्षापत्तिः, ज्ञानमानसे मानसान्यज्ञानसामठ्याः प्रतिबन्धकवाकल्पनलाघवेनैव ज्ञानस्वसंविदितत्वस्य लतायामस्माभिः समर्थितत्वात् । पक्षादिप्रत्यक्षस्य च तथोपयोगाभावादेव नापत्ति; तत्सत्त्वे पर्वतप्रत्यक्षोत्तरमाशुभाविनानुमानोपयोगेन वलयनुमित्युत्पत्त्या क्रमिकफलद्वयेनैव पर्वतं पश्यामि वहि चानुमिनोमीति व्यवहारोपपत्तेः, व्यवहारतोऽपि प्रत्यक्षत्वपरोक्षत्वयोर्विषयताविशेषेणानेकान्ते चानुपपत्तिलेशस्याप्यभावात्, उपयोगासाकर्यस्य गौणमुख्यभावेनैव प्रतिनियमादिति किं भिनविषयेऽनुमितिसामग्रीप्रतिबन्धकत्वेन, यथाक्षयोपशमं प्रतिनियतोपयोगप्रवृत्त्यैव सर्वसामञ्जस्यात् , अन्यथा वह्नयनुमित्सावि-| शिष्टवयनुमितिसामग्रीकालेवहिप्रत्यक्षेच्छाविशिष्टवहिप्रत्यक्षसामग्रीबलात्पर्वतो वह्निमानिति प्रत्यक्षं जायते न तु पर्वतवह्विसंयोगा इति समूहालम्बनं वहिवहित्वादिनिर्विकल्पकं वेत्यर्द्धजरतीयाश्रयणस्याशक्यत्वेनोक्तवह्निभिन्नविषयत्वस्याव्यवस्थितेः, वहयनुमित्साविशिष्टवह्वयनुमितिसामग्रीकालीनवहिप्रत्यक्षेच्छाविशिष्टवहिप्रत्यक्षसामग्रीकाले घटप्रत्यक्षसामग्रीदशायां पर्वतो वह्निमान् घटवांश्चेति प्रत्यक्षस्य दुरपलापत्वेन तत्र व्यभिचाराच्चोक्तवह्निभिन्नविषयकानुमितौ निरुक्तसामग्रीत्वेन प्रतिबन्धकताया दुर्वचत्वाञ्चोक्तसामग्या घटप्रत्यक्षप्रतिबन्धकत्वकल्पनेतु महागौरवम् , केवलं बहुबहुविधादिसूत्रमध्यपठितनिश्रितप्रत्यक्षहेतुक्षयोपशमवतां समानेऽपि विषये प्रथममनुमितेरेवोत्पत्तेः प्रत्यक्षसामग्र्यपेक्षयानुमितिसामग्र्या बलवच्च न्याय्यम् , श्रुतेनैव लिङ्गेन
ARRAO
For Private And Personal Use Only