SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्त्वे पर्वते घटानुमितेर्ववचनुमितेश्च सामग्रीसत्त्वे पर्वतो वह्निमानित्यनुमित्यनुत्पत्त्यापत्तिः, न चेष्टापत्तिः, भिन्नविषयेऽनुमितिसा| मग्या बलवच्चात्तदा वह्निघटोभयसमूहालम्बनानुमित्युत्पत्तौ बाधकाभावेनेष्टापत्तेः कर्तुमशक्यत्वात् , न च पर्वतो वहिमानित्यनुमितिं प्रति भिन्नविषयकानुमितिसामग्र्यभावविशिष्टायाः पर्वतो वतिमानिति लौकिकप्रत्यक्षसामग्याः प्रतिबन्धकत्वानोक्तानुपपत्तिः, एवं सति वह्वयादिप्रत्यक्षे घटाद्यनुमितिसामय्याः प्रतिबन्धकत्वाद् घटादिलौकिकप्रत्यक्षसामग्रीकाले वहिप्रत्यक्षनिहाय भिन्नविषयकानुमितिसामग्रीप्रतिबन्धकतायामपि समानविषयकलौकिकप्रत्यक्षसामय्या उत्तेजकत्वावश्यकत्वात् , यदा घटलौकिकप्रत्यक्षसामग्री तदनुमितिसामग्री च वहिलौकिकप्रत्यक्षसामग्री तदनुमितिसामग्री च तदा भिन्नविषयकानुमितिसामग्र्यभावविशिष्टवहिलौकिकप्रत्यक्षसामग्र्यभावसत्त्वात् पर्वतो वह्निमानित्यनुमितेः समानविषयकलौकिकप्रत्यक्षसामग्यभावविशिष्टघटानुमितिसामग्र्यभावसत्त्वात् पर्वतो वहिमानिति प्रत्यक्षस्य चापत्तेरिति चेत्, मैवम् , सामग्रीचतुष्टयमेलनदशायां ज्ञानद्वययोगपद्यापत्तिभिया पर्वतो वहिमानिति लौकिकप्रत्यक्षसामग्रीप्रतिबन्धकतावच्छेदककोटिनिविष्टाभावप्रतियोगिभिन्नविषयकानुमितिसामय्यां समानविषयकप्रत्यक्षसामग्र्यभावस्यापि विशेषणस्य निवेशात् , न चैवं समानविषयकप्रत्यक्षसामग्र्यामपि भिन्नविषयकानुमितिसामय्यभावनिवेशेऽनवस्था, तन्निवेशे प्रयोजनाभावेन तत्रैव विश्रान्तेरनवस्थापत्त्ययोगात् , वस्तुतः पर्वतो वहिमानिति लौकिकप्रत्यक्षसामग्रीकालीनघटाद्यनुमितिकाले बढ्यनुमित्यनभ्युपगमात्कामपि सामग्रीमनुत्तेजकीकृत्य वहिलौकिकप्रत्यक्षसामग्रीत्वेनैव वह्नयनुमितौ प्रतिबन्धकत्वकल्पनान्न दोषः। अथ वसथादिविषयकलौकिकप्रत्यक्षसामग्रीकाले बयनुमित्सासत्त्वे वयनुमित्युत्पत्तेस्तत्प्रतिबन्धकतावच्छेदककोटौ वयनुमित्साया उत्तेजकत्वं स्वीकार्यम् , तच्च केन रूपेण, न तावदनुमित्सात्वेन, NOKASAGARA AGARLS For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy