________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
परिच्छेदः दशमः॥
अष्टसहस्री दा ज्ञानहेतुत्वे तु तद्द्वारा वारणाय शाब्दसामग्र्याः क्वचित्पदार्थस्मृतिघटितायाः क्वचिच्च शाब्दतदुपस्थितिघटितायाः स्मृतिप्रतिविवरणम् ॥ बन्धकत्वकल्पने महागौरवम् , एकवाक्यताभिप्रायश्चार्थतात्पर्यविधयवोपयुज्यत इत्यननुभावकत्वांशोऽवशिष्यते, तत्र च स्वरूप
सति प्रतिबन्धके परेषां शाब्दबोधद्वयेच्छादिवदस्माकं वाक्यार्थबोधेच्छादेरुत्तेजकत्वं, वाक्यार्थबोधादयश्चाभिप्रायिकपदसंवलने ॥३५८॥
श्रुतरूपास्तदसङ्कलने मतिरूपा वा, प्रथमादिबोधद्वारा द्वितीयादिबोधे श्रुतहेतुत्वाच्च श्रुताभ्यन्तरीभूतत्वं क्रमनिर्वाहश्चेति, प्राणिनो नहन्तव्या इत्यादेराजाप्रामाण्यात् "प्रमादमूलं प्राणिहननमनर्थसाधनम्" इति तात्पर्यार्थपर्यन्तः सम्पूर्णो बोध इत्युपदेशपदाद्यनुसारी पन्थाः। क्वचिच्च प्राथमिकाद्वाक्यार्थविषयश्रुतज्ञानोत्तरं संशयं विनैव महावाक्यार्थजानुपपत्तिज्ञानरूपचिन्ताज्ञानादैदंपर्यविषयं भावनाज्ञानं जायत इति त्रिविधमेव शाब्दं ज्ञानमिष्यते, सामानाधिकरण्येनावच्छेदकावच्छेदेन च शाब्दद्वयेच्छायां द्विविधमपि तद् युज्यते, अर्थावच्छिन्नपदज्ञानोत्तरं तात्पर्यगर्भाकाङ्क्षाज्ञानाद् व्युत्पत्तिविशेषाद्वा पटिष्टक्षयोपशमवतः प्रागेव तात्पर्यार्थज्ञानं सम्भवतीत्येकविधमेव तदिति तु नव्याः। मुखं चन्द्र इत्यादिरूपकस्थले आहार्ययोग्यताज्ञानस्य हेतुत्वानुरोधेन शान्दमात्रे योग्यताज्ञानहेतुत्वमपि न युक्तिमत् , बाधनाने सति तादृशस्थले आहार्यशाब्दस्यैव स्वीकारात् , इष्टव्यङ्ग्यप्रतीतिसाधनत्वज्ञानेन मुखे चन्द्राभेदशाब्द एव तत्रेच्छोदयौचित्यात् , अत एवाहार्यारोपो रूपकमिति प्राचामुक्तिः, तादृशभाषायाश्च द्रव्यतोऽसत्यत्वेऽपि भावतः सत्यत्वात् , उपमापदस्यालंकारान्तरोपलक्षकत्वादुपमासत्यायां परिगणनं, न चैवं मृषान्तरस्यापि क्वचिद्भावतः सत्यत्वाद्रव्यभावभाषायां सत्याभेदत्वप्रसक्तिरिति वाच्यम् । क्वाचित्कत्वसार्वत्रिकत्वाभ्यामेव विशेपात , भावविशेषजन्यजनकतानवच्छेदकतया जातिभेदस्वीकाराच्च, क्वचिच्च शशशृङ्ग नास्तीत्यादौ वाक्यशक्त्या शशीयत्वेन
SCSC
॥३५८॥
For Private And Personal Use Only