________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
4%%%ACHAR
फलमिति सर्वथा तादात्म्ये सिध्यति । दर्शनस्यासारूप्यव्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत्, न, स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदानुपपत्तेः । तस्माद्वाह्यसंविदाकारयोः प्रमाणफलव्यवस्थायामपि व्यामोहविच्छेदाभावे विसंवादानिराकरणे तदज्ञस्येव विषयदृष्टिः प्रमाणत्वं न प्रतिपत्तुमर्हति । तावतैव प्रमाणत्वे क्षणिकत्वाद्यनुमानमधिगतार्थाधिगमलक्षणत्वान्न वै प्रमाणमिति निरूपितप्रायम् ॥ १०२ ॥
सर्वत्रोपेक्षा स्वविषयमात्रे जिहासोपादित्सारहितः सिद्धयोगपरिमाण इति यावत् । मोहविशेषात्मिकाया इति, मोहासुखसंवेगान्यहिर्तयुतत्वेन चतुर्विधाया अपि करुणाया मोहविलासरूपत्वानिष्पन्नयोगस्य च मैत्र्यादिवर्जितसद्बोधमात्रचित्तश्रुतेरिति भावः । सैव चेति उपेक्षा वा परमा दया वाऽभयदानं वा सिद्धयोगो वेत्यनर्थान्तरं, तत्परिपाकश्वाशैलेश्यन्त्यक्षणं केवलज्ञानादित्युपेक्षायास्तत्फलत्वं, व्यवहितत्वं च तस्याः शैलेश्यन्त्यक्षणे परिपाकादिति बोध्यम् । अव्यवहितं त्विति ज्ञानाज्ञानध्वंसयोः सहभावेऽप्यभेदे हेतुफलभावः प्रदीपप्रकाशयोरिवेति द्रष्टव्यम् । भिन्नफलापेक्षया तु न किश्चिदपि केवलादि| त्यनेन निष्फलत्वमेवोच्यते, प्रमाऽयोगव्यवच्छेदाभिप्रायेण च परेषामीश्वरज्ञान इव न प्रमाणलक्षणायोग इति युक्तं पश्यामः । मत्यादेर्भिन्नाभिन्नं फलमुपदर्शयितुमाह भाष्यकृत्, मत्यादेरित्यादिना, परम्परयाहानोपादानसंवित्तिरिति व्यवधानेन जिहासाजनिकोपादित्साजनिका वा बुद्धिमत्यादेः फलमित्यर्थः। तद्द्वारा च हेयोपादान(देय)हानोपादानात्मिका विरतिरपि फलं सङ्गच्छते । तदुवाच वाचकचक्रवर्ती “ज्ञानस्य फलं विरतिरिति” उक्तद्वारद्वारिभावं ' सवणे नाणे य विन्नाणे' इत्यादि पारमर्षसङ्ग्रहगाथयाऽन्वगच्छामः । अत एवोपेक्षामपि बहिष्प्रवृत्तिनिवृत्तिविषयान्तरसञ्चारशून्यनिभृतज्ञानरूपां मत्यादिफलत्वे
For Private And Personal Use Only