SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandi SHREEKAR अनुमानव्यतिरेकेऽपीति, अपिरस्वरसद्योतकः, तेन तवतोऽर्थापच्यादेरनुमानादावेवान्तर्भाव इत्युक्तं भवति, 'त्रिधेति इन्द्रियनोइन्द्रियस्वसंवेदनभेदात, श्रितमविप्लवमिति अभ्रान्तत्वं श्रितमित्यर्थः। 'सततंचेति,' अत्र वदन्ति श्रीजिनभद्रगणिक्षमाश्रमणानुयायिनः क्रमिकज्ञानदर्शनोपयोगद्वयाभ्युपगमेऽपि केवलिनः सर्वज्ञत्वसर्वदर्शित्वयोः सातत्यस्य साध्यपर्यवसितत्वस्य च लब्ध्यपेक्षया न विरोधो, मतिज्ञानश्रुतज्ञानयोरपि पक्षष्टिसागरोपमस्थितिकत्वस्येत्थमेवोपपादनात् , उपयोगस्थितेरुत्कर्षतोऽप्यन्तर्मुहर्तपरिमाणत्वादेव सामग्रीद्वयसमाजेऽप्येकदा केवलज्ञानदर्शनद्वयानुत्पादे मतिश्रुतयोरेव दृष्टान्तत्वात, " सह द्वौ न स्त उपयोगी" इत्यार्षवचनादेव च केवलज्ञानोपयोगकाले केवलदर्शनोपयोगात् , तस्य छद्मस्थोपयोगविषयत्वेन सङ्कोचकरणे बीजाभावात् , स्वभावहेतोरुभयत्राविशेषादादौ केवलज्ञानोपयोगोत्पादे च "सर्वा लब्धयः साकारोपयोगोपयुक्तस्यैव भवन्ति" इति वचनस्यैव विनिगमकत्वात् , तदनन्तरं केवलदर्शनोपयोगोत्पादस्य चार्थसिद्धत्वात् , तदनन्तरं क्रमिकोपयोगद्वयधारायाश्च स्वरसत एव प्रवृत्तेः, क्षणद्वयोत्पन्नज्ञानदर्शनोपयोगानुवृत्यभ्युपगमस्य च विरोधेनैव निरस्तत्वात् उत्पत्तौ विरोधो न तु स्थितावित्यस्य च वस्तुमशक्यत्वात् , वस्तुतः केवलदर्शने केवलज्ञानोपयोगसहकृतदर्शनावरणक्षयस्य केवलज्ञाने च केवलज्ञानान्योपयोगसहकृतकेवलज्ञानावरणक्षयस्य हेतुत्वान्नाशे चर्जुसूत्रनयावलम्बनेन प्रतियोगिन एव तथात्वात् केवलिनःक्षणिकोपयोगद्वयधारायां न काप्यनुपपत्तिः, व्यवहारनयावलम्बनेन नाशहेत्वनभ्युपगमेऽपि क्रमिकाद्योपयोगद्वयमुक्तहेतुसमाजादुर्निवारमेव, अन्यथा समूहालम्बनकोपयोगापत्तेरिति भावनीयम् , स्फुटं च सूत्रे तत्र तत्र केवलिनः सिद्धस्य चैकदैकतरोपयोग एव प्रतिपादित इति किं विपरीतयुक्तिभिरिति । अत्र च केवलिनो युगपदुपयोगद्वयमिति For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy