________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
564
संसारिशून्यत्वप्रसङ्गादिति प्रागभावस्य प्रतियोगिजनकत्वनियमादित्यर्थः ॥ ९९॥ शुद्धयशुद्धी पुनः शक्ती, ते पाक्यापाक्यशक्तिवत्॥साधनादी तयोर्व्यक्ती, स्वभावोऽतर्कगोचरः॥१०॥
शुद्धिस्तावजीवानां भव्यत्वं केषांचित्सम्यग्दर्शनादियोगान्निश्चीयते । अशुद्धिरभव्यत्वं तद्वैपरीत्यात् सर्वदा प्रवर्तनादवगम्यते छद्मस्थैः, प्रत्यक्षतश्चातीन्द्रियार्थदर्शिभिः । इति भव्येतरस्वभावौ शुद्ध्यशुद्धी जीवानां तेषां सामर्थ्यासामर्थ्य शक्त्यशक्ती इति यावत्। ते माषादिपाक्यापरशक्तिवत् संभाव्येते सुनिश्चितासंभवद्बाधकप्रमाणत्वात्। तत्र शुद्धेर्व्यक्तिः सादिस्तदभिव्यञ्जकसम्यग्दर्शनादीनां सादित्वात् । एतेनानादिः सदाशिवस्य शुद्धिरिति प्रत्युक्तं प्रमाणाभावाद् दृष्टातिक्रमादिष्टविरोधाच । अशुद्धेः पुनरभव्यत्वलक्षणाया व्यक्तिरनादिस्तदभिव्यञ्जकमिथ्यादर्शनादिसंततेरनादित्वात् । पर्यायापेक्षयापि शक्तरनादित्वमिति चेत्, न, द्रव्यापेक्षयैवानादित्वसिद्धेः। इति शक्तेः प्रादुर्भावापेक्षया सादित्वम् । ततः शक्तियक्तिश्च स्यात्सादिः, स्यादनादिरित्यनेकान्तसिद्धिः। यदि वा जीवानामभिसन्धिनानात्वं शुद्धवशुद्धी । स्वनिमित्तवशात् सम्यग्दर्शनादिपरिणामात्मकोऽभिसंधिः शुद्धिः, मिध्यादर्शनादिपरिणामात्मकोऽशुद्धिर्दोषावरणहानीतरलक्षणत्वात्तेषां शुद्ध्यशुद्धिशक्योरिति भेदमाचार्यः प्राह, ततोन्यत्रापि भव्याभव्याभ्यां भव्येष्वेव, साद्यनादी प्रकृतशक्त्योर्व्यक्ती सम्यग्दर्शनाद्युत्पत्तेः पूर्वमशुद्धयभिव्यक्तर्मिध्यादर्शनादिसंततिरूपायाः कथंचिदनादित्वात् , सम्यग्दर्शनागुत्पत्तिरूपायाः पुनः शक्त्यभिव्यक्तेः सादित्वात् । कुतः शक्तिप्रतिनियम इति चेत् , तथास्वभावादिति ब्रूमः । न हि भावस्वभावाः पर्यनुयोक्तव्याः, तेषामतर्क| गोचरत्वात् । ननु प्रत्यक्षेण प्रतीतेर्थे स्वभावैरुत्तरं वाच्यं, सति पर्यनुयोगे न पुनरप्रत्यक्षे, अतिप्रसङ्गादिति चेत् , न, अनुमानादिभिरपि प्रतीते वस्तुनि भावस्वभावैरुत्तरस्याविरोधात् प्रत्यक्षवदनुमानादेरपि प्रमाणत्वनिश्चयात् । ततः परमागमात्सिद्धप्रामाण्यात् । प्रकृतजी
%ARA
For Private And Personal Use Only