________________
Shri Mahavir Jain Aradhana Kendra
www.cbabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
दशमः॥
बष्टसहस्री है
न, तस्यापि बुद्धीच्छाप्रयत्नरहितत्वोपगमादन्यथा स्वमतविरोधात् । परेषां तु तस्य सशरीरस्यैव बुद्ध्यादिमत्त्वाभ्युपगमान्न तेनाविवरणम्।। नेकान्तः । ननु चेश्वरस्य धर्मित्वे तदप्रतिपत्तावाश्रयासिद्धो हेतुरिति चेत्, न, प्रसङ्गसाधनेवश्यमाश्रयस्यानन्वेषणीयत्वात् तत्प्रति॥३३॥
पत्तिसद्भावाच्च । ननु यतः प्रमाणादीश्वरस्यास्मद्विलक्षणस्य धर्मिणः प्रतिपत्तिस्तेनैव हेतुर्बाध्यते इति चेत्, न, आत्मान्तरस्य सामान्येनेश्वराभिधानस्य धर्मित्वात् सकलकारकप्रयोक्तत्वेन बुद्ध्यादिमत्त्वेन च तस्य विवादापन्नत्वात् । अथ · तन्वादिकारकाणि विवादापन्नानि चेतनाधिष्ठितानि, विरम्यप्रवृत्त्यादिभ्यो वास्यादिवदित्यनुमानात् समस्तकारकप्रयोक्तत्वं बुद्ध्यादिसंपन्नत्वं चेश्वरस्य साध्यते । ततोऽशरीरेन्द्रियत्वम् , अनाद्यनन्ततन्वादिकार्यसंताननिमित्तकारणस्यानाद्यनन्तत्वसिद्धेरनाद्यनन्तस्य शरीरत्वविरोधात् ।
अशरीरत्वमपि तस्यानाद्यनन्तमस्तु बुद्धीच्छाप्रयत्नवत् । इति मतं, तदयुक्तं, प्रमाणबाधनात् । तथा हि, नेश्वरेऽशरीरत्वमनाद्यनन्तम| शरीरत्वात् , परप्रसिद्ध्या कायकरणोत्पत्तेः पूर्वमस्मदाद्यशरीरत्ववत् । नेश्वरबुद्ध्यादयो नित्या बुद्ध्यादित्वादस्मदादिबुद्ध्यादिवदिति । एतेनागमात् ' अपाणिपाद ' इत्यादेरीश्वरस्याशरीरत्वसाधनं प्रत्याख्यातं, तस्य युक्तिबाधितत्वात् । तत एव सशरीरो महेश्वरोस्त्विति चेत्, न, तच्छरीरस्यापि बुद्धिमत्कारणापूर्वकत्वे तेनैव कार्यत्वादिहेतूनां व्यभिचारात् । तस्य बुद्धिमत्कारणपूर्वकत्वे वाऽपरापरशरीरकल्पनायामनवस्थाप्रसङ्गात् पूर्वपूर्वस्वशरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसारिणां तथाप्रसिद्धेरीश्वरकल्पनावैयर्थ्यात् , स्वोपभोग्यभवनाद्युत्पत्तावपि निमित्तकारणत्वोपपत्तेः इति न कार्यत्वाचेतनोपादानत्वसन्निवेशविशिष्टत्वहेतवो गमकाः स्युः । स्थित्वाप्रवर्तनार्थक्रियादि चेतनाधिष्ठानादिति नियमे पुनरीश्वरादेरपि मा भूत् । अन्यथेश्वरदिक्कालाकाशाश्चेतनाधिष्ठिताः स्युः, सर्वकार्येषु क्रमजन्मसु स्थित्वा प्रवर्तनादर्थ क्रियाकारित्वाद्वा(च वा)स्यादिवदिति न्यायात् । तथा चेश्वरोपीश्वरान्त
NAGAR
॥३३८॥
For Private And Personal Use Only