SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir __ अबुद्धिपूर्वापेक्षायामित्यादिव्यवस्थापनेऽपि पाक्षिकदेवपुरुषकारकान्तप्रसङ्गादनेकान्तव्याप्तिभङ्गः, बुद्धिपूर्वके कृष्यादौ दैवजन्यत्वस्याबुद्धिपूर्वकेवाऽभ्रविकारादौ यत्नजन्यत्वस्य व्यभिचारात् । पूर्व गौणप्रधानभावेन सर्वत्रोभयजन्यत्वं साधयित्वा | पश्चादयमेकतरहेतुप्राधान्यापेक्षया पाक्षिको विभाग इति चेत्, तर्हि स्यात् सर्व दैवकृतमित्यादौ सर्वपदोपादानानुपपत्तिः, सामान्यहेतुत्वापेक्षया ते भङ्गा इति चेत् , तर्हि तेषु बुद्धिपूर्वापेक्षादिहेत्वभिधानानुपपत्तिः, अव्यापकत्वात् , सर्वत्र यथा कथञ्चिदेवपुरुषकारोभयकृतत्वस्य प्रामाणिकत्वे च घटे दण्डचक्रोभयजन्यत्ववदेक एव भङ्गः स्यात् , युगपदुभयजन्यत्वादेरेकवाक्यतया वक्तुं शक्यत्वात् , न्यूनाधिकव्यापारवत्वस्यापि साधारण्येनोभयत्राविशेषात् , विविक्तस्य च तस्य पाक्षिकभङ्गसाक्षित्वात् , तस्मात् 'पुवकयं कम्मं चिय, चित्तविवागमिह भन्नई दिवं । कालाइएहिं उप्पा-यणं तु तह पुरिसगारुत्ति ॥१॥" इति श्रीहरिभद्रार्योक्तरीत्या कालादिकृतकर्मविपाकपरिणामरूपस्य पुरुषकारस्य तत्त्वतो दैवव्यापारत्वसिद्धेापारेण व्यापारिणोऽन्यथासिद्धत्वानन्यथासिद्धत्वयोर्व्यवहारनिश्चयाधीनत्वात्तद्विवक्षा कृता स्यात् , सर्व दैवकृतमित्यादयः सप्तभङ्गा द्रष्टव्याः। मोक्षे ज्ञानजन्यत्वक्रियाजन्यत्वसप्तभङ्गीकरणेऽस्या एवोपायत्वात् , अत एव परमार्थतः सर्वत्र नियतानियतेऽपि वस्तुन्याजीविकसमयप्रसिद्धं नियतिजन्यत्वमुपमृद्य पुरुषकारजन्यत्वं भगवद्वचोऽनुसारिभिर्व्यवस्थाप्यते, मतान्तरहेतोनयस्थ नयान्तरेण खण्डनस्यापि शास्त्रार्थत्वात् , नियतानियतसप्तभङ्गीप्रवृत्तौ तु नियतिजन्यताग्राहकोऽपि नय आश्रीयते एव, दाहकोऽपि चन्हिरिख पाकादाविति तत्र तत्र व्यवस्थितं, अथवा देवशब्देन कालादिचतुष्टयं गृह्यते, पौरुषशब्देन चात्मप्रयत्नः, तत्कृतत्वं च तदव्यवहितोत्तरक्षणोत्पत्तिकत्वं तच्छब्दाथश्च सामग्रीप्रविष्टो वाच्य इति, तत्त्वाविनिर्गमात् C0 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy