________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
बष्टसहस्री विवरणम् ॥
परिच्छेदः सप्तमः॥
॥३२१॥
सिद्ध, यतो निदर्शनं साधनधर्मविकलं स्यात् । एतेन खरविषाणादिशब्दानामपि स्वार्थरहितत्वमपास्तं, विशिष्टप्रतिपत्तिहेतुत्वाविशेपादन्यथा भावशब्दत्वप्रसङ्गात् । ततो न तैरपि व्यभिचारः ॥ ८४ ॥ किश्च
तेन शरीरेन्द्रियादिकलापेन, कृत उत्पादितः, प्रकृतो जीवशब्दार्थः स्यात् । 'जन्मन इति' तथा चानन्तभवव्यापिन एकभवव्यापित्वं न दुर्वचमित्यर्थः । सिद्धसाधनाभाव इति उपचरितचैतन्येन शरीरादिनेति शेषः। साध्यदोषं निराकृत्य हेतुदोषमाशङ्कते संज्ञात्वादितीत्यादिना, परिहरति-नेत्यादिना, अभिप्रेतमात्रमिति पारमार्थिकसम्बन्धशून्यमभिप्रेतमित्यर्थः । तद्वत्त्वाङ्गीकारे त्वर्थोपस्थितिद्वारा शब्दप्रमाजनकताया एव न्याय्यत्वाद्व्याप्तिस्मृत्यादिविलम्बेन ततोऽनुमितिरूपसूचाया अयोगादिति बोध्यम् । तदाभासवन्मरीचिकायाञ्जलसंज्ञावत् , करणप्रतिपत्तिवदिन्द्रियव्यापारवत् । यथा ततोऽथं परिच्छिद्य प्रवर्त्तमानानामर्थक्रियानियमो दृश्यते तथा संज्ञाया अपीति तद्वत संज्ञाप्रमाणमिति भावः । भाष्ये तदितरेति अभिधानकारणसामग्रीतरेत्यर्थः, सर्वथेति शून्योपादानत्वेकान्तनिराकरणादित्यर्थः। संज्ञाया भाषावर्गणारूपं यद्भावलक्षणमुपादानं तदेव पररूपेणाभावरूपमित्येवमभावोपादानत्वं तु नास्मत्पक्षक्षतिकरमित्याह-'सर्वत्रेत्यादि।परिनिष्ठितः प्रतिविम्बितः, भावाभावोभयाश्रित इति घटादिसंज्ञार्थस्य घटादेः खरविषाणाद्यभावव्यावृत्त्या भावरूपत्वाद्भावान्तरव्यावृत्त्या-चाभावरूपत्वादुभयव्यावृत्या चोभयरूपत्वादिति भावः । तदनेनेति' अनेन संज्ञाया भावाश्रयत्वव्यवस्थापनेन, ननु जीवशब्दः सवाद्यार्थः संज्ञात्वादित्यत्र शरीरेन्द्रियकलापाद्यर्थबाधेऽपि निरतिशयत्वादिस्वभावेन सांख्यादिकल्पितेन प्रतिक्षणभिन्न स्वभावेन च सौगतपरिकल्पितेनात्मना चरितार्थत्वान्न स्याद्वादिन इष्टसिद्धिः स्यादित्याशङ्काया
SAHASRA
॥३२॥
For Private And Personal Use Only